SearchBrowseAboutContactDonate
Page Preview
Page 15
Loading...
Download File
Download File
Page Text
________________ 5 "नयास्तव स्यात्पदसवलाञ्छिता, रसोपविद्धा इव लोहधातवः । भवन्त्यभिप्रेत (धेय) फला यतस्ततो, भवन्तमार्याः प्रणता हितैषिणः ॥ १ ॥ " इति, आत्मन एकत्वमुक्तन्यायतोऽभ्युपगच्छद्भिरपि कैश्चिन्निष्क्रियत्वं तस्याभ्युपगतमतस्तन्निराकरणाय तस्य क्रियावचभः क्रियायाः कारणभूतं दण्डस्वरूपं प्रथमं तावदभिधातुमाह एगे दंडे (०३) एगा किरिया ( सू० ४) एगे लोए ( सू० ५) एगे अलोप ( सू० ६ ) ' एगो' तिएकोsविवक्षित विशेषत्वात् दण्डयते - ज्ञानाद्यैश्वर्यापहारतोऽसारीक्रियते आत्माऽनेनेति दण्डः, स च द्रव्यतो भावतश्च द्रव्यतो यष्टिर्भावतो दुष्प्रयुक्तं मनःप्रभृति । तेन चात्मा क्रियां करोतीति तामाह - 'एगा किरिया एका अविवक्षि विशेषतया करणमात्र विवक्षणात् करणं क्रिया- कायिक्यादिकेति, अथवा 'एंगे दंडे, एगा किरिय' सिसूत्रद्वयेनात्मनोऽक्रिय त्वनिरासेन सक्रियत्वमाह, यतो दण्डक्रियाशब्दाभ्यां त्रयोदशक्रियास्थानानि प्रतिपादितानि, तत्रार्थदण्डानर्थदण्डहिंसादण्डाक स्माद्दण्ड विपर्यासदण्डरूपः पञ्चविधो दण्डः परप्राणापहारलक्षणो दण्डशब्देन गृहीतः तस्य चैकत्वं वधसामान्यादिति, क्रियाशब्देन तु मृपाप्रत्यया अदत्तादानप्रत्यया आध्यात्मिकी मानप्रत्यया मित्रद्वेषप्रत्यया मायाप्रत्यया लोभप्रत्यया ऐर्यापथिकीत्यष्टविधा क्रियोक्ता, तदेकत्वं च करणमात्रसामान्यादिति दण्ड क्रिययोथ स्वरूपविशेषमुपरिष्टात् स्वस्थान एव वक्ष्याम इति । उक्तस्वरूपस्यात्मन आधारस्वरूपनिरूपणायाह- 'एगे लोग' सि एकोऽविवक्षिता सङ्ख्य प्रदेशाच स्तिर्यगादि दिग्भेदतया लोक्यतेदृश्यते केवलालोकेनेति लोकः - धर्मास्तिकायादिद्रव्याधारभूत आकाशविशेषः, लोकव्यवस्था ह्यलोके तद्विपक्षभूते सति भवतीति Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.600142
Book TitleSthanang Sutra Dipika Vrutti
Original Sutra AuthorN/A
AuthorVimalharsh Gani, Mitranandvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1974
Total Pages454
LanguageSanskrit
ClassificationManuscript & agam_sthanang
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy