SearchBrowseAboutContactDonate
Page Preview
Page 13
Loading...
Download File
Download File
Page Text
________________ 3 उक्तं च मित्यनेनावधारणाभिधायिना स्वयमवधारितमेवान्यस्मै प्रतिपादनीयमित्याह, अन्यथाऽभिधाने प्रत्युतापायसम्भवात् " किं इत्तो पावयरं, सम्मं अणहिगयधम्मसम्भावो । अन्नं कुदेसणाए, कट्टयरागंमि पाडेइ " ॥ १ ॥ ति मयेत्यनेनोपक्रमद्वाराऽभिहित भावप्रमाणद्वारा गतात्मानन्तरपरम्परभेदभिन्नागमेनायं वक्ष्यमाणो ग्रन्थोऽर्थतोऽनन्तरागमः सूत्र - तस्त्वात्मागम इत्याह 'आयुष्मन्नि ' त्यनेन तु कोमलवचोभिः शिष्यमनः प्रल्हादयताऽऽचार्येणोपदेशो देय इत्याह, उक्तं च" धम्मम एहिं अइसुंदरेर्हि, कारणगुणोवणीएहिं । पल्हायंतो य मणं, सीसं चोएड आयरिउ ॥ १ ॥ त्ति " आयुष्मत्राभिधानं चात्यन्तमाल्हादकं प्राणिनामायुषोऽत्यन्ताभीष्टत्वात्, यत उच्यते " सव्वे पाणा पियाउया अपियवहा तह सुहासाया दुक्खपडिकूला, सव्वे जीविकामा, सव्वेसिं जीवियं पियं" ति । तथा " तृणायापि न मन्यन्ते, पुत्रदारार्थसम्पदः । जीवितार्थे नरास्तेन, तेषामायुरतिप्रियम् ॥ १ ॥ " इति, अथवा आयुष्मन्नित्यनेन ग्रहणधारणा गुणवते शिप्याय सूत्रार्थी देय इति ज्ञापनार्थं सकलगुणाधार भूतत्वेनाशेषगुणोपलक्षणेन चिरायुर्लक्षणगुणेन शिष्यामन्त्रणमकारि, यत उक्तम् " बुडे वि दोणमेहे, न कण्हभूमीओ लोहए उदयं । गद्दणधरणासमत्थे, इय देयमछित्तिकारिम्मि ॥ १ ॥ " विपर्यये तु दोष इति आह च " आयरिए सुत्तम्मिय, परिवाओ सुत्तअत्थपलिमंथो । अन्नेसिं पि य हाणी, पुट्ठा वि न दुद्धदा वंझा || १ || " इति तथा 'तेनेत्यनेन आप्तत्वादिगुणप्रसिद्धताभिधायकेन प्रस्तुताध्ययनप्रामाण्यमाह - बहुगुणापेक्षयाऽऽप्तवचनप्रामाण्यस्येति, 'भगवते' Jain Education International For Private & Personal Use Only ooooooooooo www.jainelibrary.org
SR No.600142
Book TitleSthanang Sutra Dipika Vrutti
Original Sutra AuthorN/A
AuthorVimalharsh Gani, Mitranandvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1974
Total Pages454
LanguageSanskrit
ClassificationManuscript & agam_sthanang
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy