________________
स.१७-४३
श्रीस्थानाक
सूत्र दीपिका
वृत्तिः
પછા
मनोर्जाता मनुजाः-मनुष्यास्ते च देवासुरमनुजास्तेषां तथा 'वागि' ति वाग्योगः स चैषामेकदा एक एव तथाविधमनोयोगपूर्वकत्वात् तथाविधवाग्योगस्य, सत्यादिनामन्यतरभावाद वा, वक्ष्यति च-"छहिं ठाणेहिं नो अस्थि जीवाणं इड्ढीइ वा जाव परक्कमेइ वा, तं जहा-जीवं वा अजीवं करणयाए १ अजीवं वा जीवं करणयाए २, एगसमएणं दो भासाओ भासित्तए" त्ति । तथा कायव्यायामः-काययोगः, स चैपामेकदा एक एव, सप्तानां काययोगानामेकदा एकतरस्यैव भावात्, ननु यदाहारकप्रयोक्ता भवति तदौदारिकस्यावस्थितस्य श्रयमाणत्वात कथमेकदा न काययोगद्वयमिति ? अत्रोच्यते सतोऽप्यौदारिकस्य व्यायामाभावात्, आहारकस्यैव च तत्र व्याप्रियमाणत्वाद्, यदि औदारिकमपि तदा व्याप्रियते तर्हि मिश्रयोगता भविष्यति, केवलिसमुद्घाते सप्तमषष्ठद्वितीयसमयेष्वौदारिकमिश्रवत् , तथा चाहारकप्रयोक्ता न लभ्येत, एवं च सप्तविधकाययोगप्रतिपादनमनर्थकं स्यादित्येक एव कायच्यायाम इति । इह च देवादिग्रहणं विशिष्टवैक्रियलब्धिसंपन्नतयेषामनेकशरीररचने सत्येकदा मनोयोगादीनामनेकत्वं शरीरवद् भविष्यतीति प्रतिपत्तिनिरासार्थ, न तु तिर्यग्नारकाणां व्यवच्छेदार्थमिति विस्तरो वृत्तितो ज्ञेयः। सर्वत्र एवं च काययौगिकत्वे सत्यौदारिकादिकाययोगाहृतमनोद्रव्यवागद्रव्यसाचिव्यजातजीवव्यापाररूपत्वान्मनोयोगवागयोगयोरेककाययोगपूर्वकतयापि प्रागुक्तमेकत्वमवसेयमिति, अथवेदमेव वचनमत्र प्रमाणमाज्ञाग्राह्यत्वादस्य, यतः-"आणागेज्झो अत्थो, आणाए
चेव सो कहेयव्यो । दिळंता दिलुतिय, कहणविही विराहणा इहरा ॥१॥ ति" दृष्टान्ताद् दाान्तिकोऽर्थ इत्यर्थः । एतेषां च मनःप्रभृतीनां यथाप्राधान्यकृतः क्रमः, प्रधानत्वं च बह्वल्पाल्पतरकर्मक्षयोपशमोपशमप्रभवलाभकृतमिति ॥ कायव्यायामस्यैव भेदानामेकतामाह-एगे उहाणे' उत्थान
For Private & Personal use Onty
॥१४॥
Jain Education in
27%
S
w
w.iainelibrary.org