Book Title: Siddhantasara Dipak
Author(s): Bhattarak Sakalkirti, Chetanprakash Patni
Publisher: Ladmal Jain
View full book text
________________
[५६५
पोरशोऽधिकारा पब इसी संख्या प्रमाण का सविस्तार वर्णन करते हैं:अमीषां सुखबोधाय संस्कृतभाषया पृथक् व्याख्यानं क्रियतेः
अनवस्था-शलाका-प्रतिशलाका महाशलाका नामानि लक्षयोजनवृत्त विस्ताराणि सहस्रयोजनावगाहानि चत्वारि कुण्डानि कारयेत् । ततः कश्चिदेवो दानवो बा वृत्तसर्षपैरनवस्थाकुण्डं प्रपूरयेत् । तदनन्तरं कुण्डसर्षपान् तान् गृहीत्वा स एक सर्षपं शलाकाकुण्डे प्रक्षिप्य शेषान् सर्षपान् एकैक रूपेण द्वोपसागरेषु प्रक्षिपेत् । एवं कृते यस्मिन् द्वीपे समुद्र दा अन्तिमः सर्षपोनिक्षिप्तः तावन्मानं सूच्यात्मकं अनवस्थाकुण्डं कृत्वा सपंपैः प्रपूयं ताम् सर्षपानादाय पूर्ववदेक सर्षपं शलाकाकुण्डे निक्षिप्य शेषान् सर्षपान् द्वीपवाधिषु निक्षिपेत् । पुन: यस्मिन् दीपे वाधों वान्त्यः सर्षपो भवति तत्रैव तावन्मात्रं कुण्डं विधाय सर्षपूर्णं कृत्वा प्राग्वदेकं शलाकाकुण्डे क्षिप्त्वा शेषान् गृहीत्वा तान् सर्षपान एकैक रूपेण द्वरेपसागरेषु क्षिपेत् । अनेन विधिना अनवस्थाकुण्डं बारं वारं तावद्विवधं येत् यावत् शलाकाकुण्डं सर्षपः पूर्ण भवति । पुनस्तदन्तिमं द्वीपत्राधिस्थं अनवस्था कुण्ड सर्षपपूर्णं कृत्वा पूर्ववत्तान् सर्षपानादायकं सर्षपं प्रतिशलाकाकुण्डे प्रक्षिप्य शेषांस्तान् एकेक रूपेण क्रमेण द्वीपवादिषु क्षिपेत् । अनेन विधिना मुहुर्मुहुरनवस्था कुण्डं ताबद्धयेत् यावत् प्रतिशलाकाकुण्डं सर्षपः पूर्ण स्थात् । ततः पूर्ववत् तदन्तिमं वर्धमानमऽनवस्थाकुण्डं सर्षपः पूरयेत् । पुनस्तान् सर्षपान् गृहीत्वा एक सर्षपं महाशलाकाकुण्डे क्षिप्रवा शेषान् सर्षपान् एकेक रूपेण द्वीपाम्बुधिषु क्षिपेत् । एवमनवस्थाकुण्डं तावदर्ययेत यावन्महाशलाका कुण्डं सषपः पूर्णता याति । एवं कुण्डलये पूर्ण सति प्रवद्धिते द्वीपसागरस्थे अनवस्था कुण्डे यावन्त: सर्षपाः सन्ति तावन्मानं जघन्यपरीतासंख्यातं कथ्यते । अघन्यपरीता संख्यातादेकस्मिन् सर्ष पेऽपनीते सर्वोत्कृष्ट संख्यातं जायते । यद् रूपद्वयं तज्जघन्य संख्यातं । जघन्योत्कृष्टयोर्मध्ये मध्यम संख्यातं नानाभेदं स्यात् । तानि जघन्यपरीतासंख्यातरूपाणि अन्य जघन्यपरोतासंख्यातरूपगुणितानि कृत्वा यावत्प्रमाणानि रूपाणि तावन्मानं जघन्ययुक्तासंख्यात. मुत्पद्यते । जघन्ययुक्तासंख्यातादेकरूपेऽपनीते परीतासंख्यातमुत्कृष्ट भवति । जघन्यपरीतासंख्यातोत्कृष्टपरोतासंख्यातयोमध्ये मध्यमपरीतासंख्यातं नानाप्रकारं स्यात् । तज्जधन्ययुक्तासंख्यातं अपरेण युक्तासंख्यातजघन्येन गुरिणत्वा तत्र यावन्मात्रारिंग रूपाणि तावन्मानं जघन्यासंख्यातासंख्यातं स्यात् । जधायासंख्यातासंख्यातादेकस्मिन् रूपेऽपनीते उत्कृष्टयुक्तासंख्यातं जायते । जघन्योत्कृष्टयोर्युक्तासंख्या. तयोर्मध्ये मध्यमयुक्तासंख्यातं बहुभेदभिन्न भवति ।
तज्जघन्यासंख्यातासंख्यातं श्रीन वारान् वगित संगितं च कृत्वा धर्माधर्मकजीवलोकाकाशप्रदेश प्रत्येकशरीर-चादर-प्रतिष्ठितवनस्पति कायिकेषु संयुक्तं कृत्वा पुनरपि त्रीन् बारान् वगितं संवगितं विधाय स्थितिबन्धाध्यबसानस्थानानुभागाध्यवसानोत्कृष्ट योगाविभागप्रतिच्छेदोत्यपिण्यव

Page Navigation
1 ... 639 640 641 642 643 644 645 646 647 648 649 650 651 652 653 654 655 656 657 658 659 660 661 662