Book Title: Shrutbodha
Author(s): Kanaklal Thakur, Bramhashankar Mishr
Publisher: Chaukhamba Vidyabhavan

View full book text
Previous | Next

Page 8
________________ अश्लीलांशवर्जितः श्रुतबोधः 'विमला' संस्कृत-हिन्दीटीकोपेतः OXOS ग्रन्यप्रतिज्ञा छन्दसां लक्षणं येन श्रुतमात्रेण बुध्यते । तमहं सम्प्रवक्ष्यामि श्रुतबोधमविस्तरम् ।। १ ।। अन्वयः-येन श्रुतमात्रेण छन्दसाम् लक्षणं बुध्यते । अहम् अविस्तरं तं श्रुतबोधं सम्प्रवच्यामि । व्याख्या-येन ग्रन्थेन श्रुतमात्रेण श्रुतेनैव छन्दसाम् आर्याऽनुष्टुप्प्रभृतीनां लक्षणं चिहं ( लघुगुरुवर्णमात्रास्वरूपं ) बुध्यते ज्ञायते विद्वनिरिति शेषः । अहं कालिदासः अविस्तरं विस्ताररहितं तं प्रसिद्धं श्रुतबोधनामानं ग्रन्थं सम्प्रवघयामि कथयिष्यामि । भाषा-जिस ग्रन्थ के सुनने से हो आर्या आदि छन्दों का चिह्न जाना जाता है; उस संक्षिप्त श्रुतबोध नामक ग्रन्थ को मैं कहूँगा ॥ १ ॥ गुरुविचार-परिभाषा संयुक्ताद्यं दीर्घ सानुस्वारं विसर्गसम्मिश्रम् । विज्ञेयमक्षरं गुरु पादान्तस्थं विकल्पेन ॥२॥ अन्वयः-संयुक्ताचं दीर्घ सानुस्वारं विसर्गसम्मिश्रम् अक्षरं गुरु विज्ञेयम् । पादान्तस्थम् अक्षरं विकल्पेन (गुरु विज्ञेयम् )। व्याख्या-संयुक्ताचं संयुक्तवर्णप्रथमं दीर्घ द्विमात्रिकं (भा-ई-ऊ-त्र) सानुस्वारम् अनुस्वारसहितं विसर्गसम्मिश्रं विसर्गयुक्तम् अपरं वर्णः गुरु गुरुसंज्ञक

Loading...

Page Navigation
1 ... 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34