Book Title: Shrutbodha
Author(s): Kanaklal Thakur, Bramhashankar Mishr
Publisher: Chaukhamba Vidyabhavan
View full book text
________________
श्रुतबोधः अन्वयः-हे उज्ज्वलमते ! यत्र चेद् आद्यं द्वितीयम् अपि चतुर्थम् अष्टमं दशमान्त्यम् उपान्त्यं अन्त्यं च ( यद् अक्षरं ) तद् गुरु ( स्यात् ) अष्टाभिः षडभिः च विरतिः ( स्यात् तदा ) किल विज्ञाः तां वसन्ततिलकां वदन्ति ।
व्याख्या-हे उज्ज्वलमते ! हे विमलमते ! यत्र यस्यां वृत्तौ चेत् यदि आy प्रथम द्वितीयम् अपि चतुर्थम्, अष्टम, दशमानत्यम् एकादशम उपान्त्य त्रयोदशम, अन्त्यं चतुर्दशं च यद् अक्षरं तद् गुरु स्यात् अष्टाभिः षड्भिश्च विरतिः विश्रामः स्यात् तदा तां विज्ञा बुधाः वसन्ततिल कां वदन्ति कथयन्ति । उदाहरणं यथानिन्दतु नीतिनिपुणा यदि वा स्तुवन्तु
लचमीः समाविशतु गच्छतु वा यथेच्छम् । अद्यैव वा मरणमस्तु युगान्तरे वा
___न्याय्यात् पथः प्रविचलन्ति पदं न धीराः ॥ भाषा-जिसमें पाद के प्रथम, द्वितीय, चतुर्थ, अष्टम, एकादश, त्रयोदश और चतुर्दश अक्षर गुरु हो और आठ आठ तथा छ छ अक्षरों पर विश्राम हो उसको वसन्ततिलका नामक छन्द कहते हैं ॥ ३७ ॥
(३५) मालिनी छन्दः प्रथममगुरु षट्कं विद्यते यत्र वृत्ते
तदनु च दशमं चेदक्षरं द्वादशान्त्यम् । गिरिभिरथ तुरङ्गैः स्याच्च ननं विरामः
सुकविजनमनोज्ञा मालिनी सा प्रसिद्धा । ३८ ।। अन्वयः-यत्र वृत्ते चेत् प्रथमं षट्कं, तदनु दशमं, द्वादशान्त्यं च अक्षरम् अगुरु विद्यते अथ गिरिभिः तुरङ्गैः च विरामः स्यात् सा नूनं सुकविजनमनोज्ञा मालिनी प्रसिद्धा (भवति)।
व्याख्या-यत्र यस्मिन् वृत्ते छन्दसि चेद् यदि प्रथमं षटकम् आदितः षडक्षरवृन्दं तदनु तदनन्तरं दशमं द्वादशान्त्यं त्रयोदशं च अक्षरम् वर्णः अगुरु हस्वं विद्यते वर्तते, अथ अनन्तरं गिरिभिरष्टभिः तुरङ्गैः सप्तभिवाक्षरैः विरामो विरतिः स्यात् भवेत् । सा एषा नूनं निश्चयेन सुकविजनमनोज्ञा काव्यज्ञमनोरञ्जिनी मालिनी तमाम्नी वृत्तिः प्रसिद्धा ख्याता भवतीति शेषः ।

Page Navigation
1 ... 25 26 27 28 29 30 31 32 33 34