Book Title: Shrutbodha
Author(s): Kanaklal Thakur, Bramhashankar Mishr
Publisher: Chaukhamba Vidyabhavan

View full book text
Previous | Next

Page 28
________________ अश्लीलांशवर्जितः २१ उदाहरणं यथा असित गिरिसमं स्यात्कजलं सिन्धुपात्रे सुरतरुवरशाखा लेखनी पत्रमुर्वी । लिखति यदि गृहीत्वा शारदा सर्वकालं तदपि तव गुणानामीश ! पारं न याति ॥ भाषा-जिसमें पाद के प्रथम से ६ अतर पर्यन्त, दशम और त्रयोदश अक्षर हस्व हों और आठ आठ तथा सात सात अक्षरों पर विश्राम हो, वह मालिनी नाम से प्रसिद्ध होता है ॥ ३८ ॥ (३६) हरिणी छन्दः स्युरिह लघवः पञ्च प्राच्यास्ततो दशमान्तिक. म्तदनु लघुतायुक्तौ वर्णी यदि चित्रतुर्दशौ । प्रभवति पुनर्योपान्त्योऽधिभारति सद्रते ! यतिरपि रसैर्वेदैरश्वैः स्मृता हरिणीति सा ॥ ३६॥ अन्वयः-हे अधिभारति सदते ! इह यत्र प्राच्याः पञ्च (वर्णाः) लघवः स्युः, ततः दशमान्तिकः (वर्णः लघुः स्यात् ), तदनु यदि त्रिचतुर्दशौ वौँ लघुतायुक्तौ (स्याताम् ) पुनः उपान्त्यः (वर्णः लघुः) प्रभवति रसैः वेदैः अरवैश्च यतिरपि ( स्यात् तदा) सा हरिणी इति स्मृता। व्याख्या हे अधिभारति सद्रते! हे सरस्वत्यां विद्यमानानुराग ! इह छन्दःशास्त्रे यत्र यस्यां वृत्तौ प्राध्याः पञ्च वर्णाः प्रथमतः पञ्चाक्षराणि लघवः हस्वाः स्युः भवेयुः ततः तदनन्तरं दशमान्तिकः एकादशो वर्णो (लघुः स्य त् ), तदनु तत्पश्चात् यदि चेत् त्रिचतुर्दशौ त्रयोदश-चतुर्दशसंख्यकौ वर्णी अक्षरे लघुतायुक्ती लघू ( स्याताम् ), पुनः उपास्यः षोडशो वर्णों ( लघुः) प्रभवति विद्यते रसैः षभिः वेदैश्चतुर्भिः अश्वैः सप्तभिश्च वर्णैः यतिः विरामोऽपि ( स्यात् ) तदा सा पूर्वोक्तलक्षणलपिता 'हरिणी' इतिनाम्नी स्मृता कथिता बुधैरिति शेषः । उदाहरणं यथा विरमत बुधा ! योषिरसङ्गात् सुखात् क्षणभङ्गुरात् कुरुत करुणामैत्रीः प्रज्ञावधूजनसङ्गमम् ।

Loading...

Page Navigation
1 ... 26 27 28 29 30 31 32 33 34