Book Title: Shrutbodha
Author(s): Kanaklal Thakur, Bramhashankar Mishr
Publisher: Chaukhamba Vidyabhavan

View full book text
Previous | Next

Page 31
________________ २४ श्रुतबोधः दशाद्यान्तिमाः (गुरवः स्युः), मार्तण्डैः मुनिभिश्च यत्र विरतिः ( स्यात् ), काव्यर• सिकाः तत् शार्दूलविक्रीडितं वृत्तं प्रवदन्ति । ___ व्याख्या-हे छन्दोऽनुसन्धानकृत् ! हे छन्दोज्ञाननिरत ! यदि चेत आद्याः प्रथमाः त्रयः त्रिसंख्यका वर्णाः गुरवो दीर्घाः स्युः ततस्तदनन्तरं षष्ठः तथा भष्टमश्च वर्णो गुरुः स्यात् भवेत् , ननु निश्चयेन एकादशतः त्रयः द्वादश-त्रयोदशचतुर्दशाः वर्णा गुरवः, तदनु तदनन्तरं भष्टादशाधान्तिमाः षोडश-सप्तदशी अनस्यश्च एकोनविंशश्च गुरवः स्युः मार्तण्डैः सूर्यैः द्वादशभिः मुनिभिः सप्तभिश्चाक्षरैः विरतिविरामः स्यात् , काव्यरसिकाः काव्यविदः तत् शार्दूलविक्रीडितं वृत्तं छन्दः प्रवदन्ति कथयन्ति । उदाहरणं यथा नान्योद्योगवता न चाप्रवसता नास्मानमुस्कर्षता नालस्योपहतेन नान्यमनसा नाचार्यविद्वेषिणा । लज्जाशीलविलास-सुन्दरमुखी सीमन्तिनीं नेच्छता लोके ख्यातिकरः सतामभिमतो विद्यागुणः प्राप्यते ॥ भाषा-जिसके चरणों में प्रथम से तीन अक्षर और षष्ठ, अष्टम, द्वादश, त्रयोदश, चतुर्दश, षोडश, सप्तदश और अन्तिम अक्षर दीर्घ हों तथा बारह २ सात-सात अक्षरों पर विश्राम हो, उसको काव्य के रसिक शार्दूलविक्रीडित छन्द कहते हैं ॥ ४२ ॥ (४०) स्नग्धरा वृत्तम् चत्वारो यत्र वर्णाः प्रथममलघवः पष्ठकः सप्तमोऽपि द्वौ तद्वत्षोडशाद्यौ श्रुतिधरपथभृत ! षोडशान्त्यौ तथाऽन्त्यौ । छन्दःशास्त्राभिलाषिन् ! मुनिमुनिमुनिभिदृश्यते चेद्विरामः शिष्य ! स्तुत्यैः कवीन्द्रैः सततनिगदिता स्रग्धरा सा प्रसिद्धा ।। ४३॥ अन्वयः-हे श्रुतिधरपथभृत् ! यत्र प्रथमं चत्वारो वर्णा अलघवः ( स्युस्तथा) षष्ठकः सप्तमः अपि ( अलघुः स्यात् ), हे छन्दःशास्त्राभिलापिन् ! तद्वत् षोडशाधौ द्वौ षोडशान्त्यौ तथा अन्त्यौ (गुरू स्याताम् ), हे शिष्य ! मुनि-मुनिमुनिभिः विरामश्चेत् दृश्यते, (तदा) स्तुत्यैः कवीन्द्रः सततनिगदिता प्रसिद्धा सा स्रग्धरा ( स्यात् )।

Loading...

Page Navigation
1 ... 29 30 31 32 33 34