Book Title: Shrutbodha
Author(s): Kanaklal Thakur, Bramhashankar Mishr
Publisher: Chaukhamba Vidyabhavan

View full book text
Previous | Next

Page 15
________________ श्रुतबोधः (१२) चम्पकमाला (रुक्मवती) छन्दः शिष्य ! गुरु स्यादाद्य चतुर्थ पञ्चमपष्टं चान्त्यमुपान्त्यम् | इन्द्रियबाणैर्यत्र विरामः सा कथनीया चम्पकमाला ।। १५ ।। अन्वयः-हे शिष्य ! यत्र आद्यचतुर्थ पञ्चमपष्ठम् अन्त्यम् उपान्त्यम् च गुरु स्यात् , (तथा) इन्द्रियबाणः विरामः (स्यात् ) सा चम्पकमाला कथनीया । व्याख्या हे शिप्य ! छात्र ! यत्र यस्यां वृत्तौ आद्यचतुर्थप्रथमतुर्य पञ्चमपष्टं पञ्चमम् षष्ठम् अन्त्यं पादान्त्यम् ( दशममिति यावत् ) उपास्यं नवमं च अक्षरं गुरु दीर्घ स्यात् भवेत् , (नथा) इन्द्रियवाणैः पञ्चभिः पञ्चभिः वणः विरामः विश्रामः ( स्यात् ), सा चम्पकमाला तन्नाम्नी वृत्तिः कथनीया अभिधेया ॥ उदाहरणं यथा कायमनोवाक्यः परिशुद्धैर्यस्य सदा कंद्विपि भक्तिः । राज्यपदे हालिरुदारा रुक्मवती विघ्नः खलु तस्य ।। भाषा-हे छात्र ! जिसके प्रथम, चतुर्थ, पञ्चम, षष्ट, नवम और दशम अक्षर गुरु हों और पाँच पाँच अक्षरों पर विश्राम हो, वह चम्पकमाला नामक छन्द है। (१३) मणिबन्धच्छन्दः चम्पकमाला यत्र भवेदन्त्यविहीना बुद्धिनिघे!। इन्द्रियवेदैश्चेद्विरतिस्तन्मणिबन्धं संकथितम् ।। १६॥ अन्वयः-हे बुद्धिनिधे! यत्र चम्पकमाला अन्त्यविहीना भवेत् , इन्द्रियवेदैः विरतिः, चेत् तत् मणिबन्धं संकथितम् ।। व्याख्या हे बुद्धिनिधे ! ज्ञाननिधान ! यत्र यस्मिन् छन्दसि चम्पकमाला (छन्दः) अन्त्यविहीना अन्त्य न अक्षरेण विहीना रहिना भवेत् जायेन, अर्थात् प्रथमं चतुर्थ पञ्चमं षष्टं नवमं च अक्षरं गुरु दीर्घ स्यात , तथा इन्द्रियवे दैः पञ्चभिः चतुर्भिरक्षरैः विरतिर्विरामश्चेत् यदि स्यात् तदा तत् वृत्तं मणिबन्धं नाम संकथितं संप्रोक्तम् विद्वद्भिरिति शेषः । उदाहरणं यथा कालियभोगाभोगगतस्तन्मणिमध्यस्फीतरुचा । चित्रपदाभो नन्दसुतश्चारु ननर्त स्मेरमुखः ॥ भाषा-जिसके सभी पादों में प्रथम, चतुर्थ, पञ्चम, पष्ठ और नवम अक्षर गुरु हों और पाँच पाँच तथा चार चार अक्षरों पर विश्राम हो, उस छन्द को छन्दशास्त्र के पण्डितों ने मणिबन्ध नाम से कहा है ॥ १६ ॥

Loading...

Page Navigation
1 ... 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34