Book Title: Shrutbodha
Author(s): Kanaklal Thakur, Bramhashankar Mishr
Publisher: Chaukhamba Vidyabhavan

View full book text
Previous | Next

Page 24
________________ अश्लीलांशवर्जितः भाषा - तोटक वृक्ष के प्रत्येक चरण का पञ्चम अक्षर दीर्घ हो और पष्ठ अक्षर हस्व हो तो वह प्रमिताक्षरा छन्द कहा गया है ।। ३१ ।। १७ (२९) हरिणोप्लुता छन् प्रथमाक्षरमाद्यतृतीययोर्द्रतविलम्बितकस्य च पाठयो । यदि चेन्न तदा भवतीह सा सकलवृत्तचये हरिणीप्लुता ॥ ३२ ॥ अन्वयः - इह द्रुतविलम्बितकस्य आद्यतृतीययोः पादयोः प्रथमाक्षरं च यदि न चेत् तदा सा सकलवृत्तचये हरिणीप्लुता भवति । व्याख्या – इह छन्दःशास्त्रे द्रुतविलम्बितकस्य दुतविलम्बितनामवृत्तस्य आद्यतृतीययोः प्रथम-तृतीययोः पादयोः चरणयोः प्रथमाचरम् आद्यवर्णश्च यदि न चेत् स्यात् तदा सा पूर्वोक्ता सकलवृत्तचये निखिलच्छन्दोवृन्दे हरिणीप्लुता तन्नामच्छन्दः भवति जायते । उदाहरणं यथा— अयि शिष्यजन ! स्वयमादराद्यदि गुरूक्तिरतो भुवने भवेः । ननु तर्हि गुणाकरतातितस्तव यशो दशदिग्-विततं भवेत् ॥ भाषा - जिस में द्रुतविलम्बित छन्द के पहिले और तीसरे पाद का पहला अक्षर न हो, वह हरिणीप्लुता नामक छन्द है I (३०) वंशस्थं वृत्तम् उपेन्द्रवज्ञाचरणेषु सन्ति चे-दुपान्त्यवर्णा लघवः कृता यदा । सदानतिभ्राजितभारतीरते ! वदन्ति वंशस्थमिदं बुधास्तदा || ३३ || अन्वयः - हे सदानतिभ्राजितभारतीरते ! चेद् उपेन्द्रवज्राचरणेषु उपान्त्ययर्णाः यदा लघवः कृताः सन्ति तदा बुधाः इदं वंशस्थं वदन्ति । व्याख्या - हे सदानतिभ्राजितभारतीरते ! हे पण्डितप्रणतिशोभितसरस्वत्यनुराग ! चेत् यदि उपेन्द्रवज्राचरणेषु उपेन्द्रवज्रापादेषु उपान्त्यवर्णाः एकादशसंख्यकाक्षराणि यदा लघवो हस्वाः कृताः न्यस्ताः सन्ति वर्तन्ते, तदा बुधाः पण्डिताः इदम् एतद् वंशस्थं तन्नामकं छन्दो वदन्ति कथयन्ति । उदाहरणं यथा विलासवंशस्थविलं मुखानिलैः प्रपूर्य यः पञ्चमरागमुद्गिरन् । वजाङ्गनानामपि सक्तचेतसां जहार मानं स हरिः पुनातु नः ॥

Loading...

Page Navigation
1 ... 22 23 24 25 26 27 28 29 30 31 32 33 34