Book Title: Shrutbodha
Author(s): Kanaklal Thakur, Bramhashankar Mishr
Publisher: Chaukhamba Vidyabhavan
View full book text
________________
अश्लीलांशवर्जित।
(१४) शालिनीच्छन्दः हस्वो वर्णों जायते यत्र षष्ठो हे जिज्ञासो! तद्वदेवाष्टमान्त्यः । विश्रामः स्याच्छिष्य ! वेदैस्तुरङ्गस्तां भाषन्ते शालिनी छान्दसीयाः ।।
अन्वयः-हे जिज्ञासो ! हे शिष्य ! यत्र पष्ठः वर्णः हस्वः लायते, तहदेव अष्टमान्त्यः ( अपि हस्थो जायते ), वेदैः तुरङ्गैश्च विश्रामः स्यात् ; छान्दसीयाः तां शालिनी भाषन्ते ।
व्याख्या हे जिज्ञासो ! ज्ञानाभिलाषिन् ! हे शिष्य ! छात्र ! यत्र यस्मिन् छन्दसि षष्ठः षष्ठसंख्यकः वर्णोऽक्षरं ह्रस्वो लघुर्जायते भवति, तादेव तथैव अष्टमान्त्यः नवमोऽपि हस्वो लघुर्जायते छान्दसीयाः छन्दरशात्रतत्वविदः तां शालिनी तमानी वृत्ति भाषन्ते कथयन्ति । उदाहरणं यथा
अंहो हन्ति ज्ञानवृद्धिं विधत्ते धर्म धत्ते काममथं च सूते ।
मुक्तिं दत्ते सर्वदोपास्यमाना पुंसां श्रद्धाशालिनी विष्णुभक्तिः ॥ भाषा-जिस छन्द में षष्ठ और नवम अपर हस्व हो और चार-चार तथा सात सात अक्षरों पर विश्राम हो, उसको छन्द के जानने काले शालिनी छन्द कहते हैं।
(१५) मन्दाक्रान्ताच्छन्दः चत्वारः प्राग यदि हि गुरवो द्वौ दशैकादशौ चेच्छन्दोज्ञान-प्रसित धिषणाऽनारतं द्वादशान्त्यौ । तद्वाश्चान्त्यौ युगरसहयैर्वत्र वृत्ते विरामो
मन्दाक्रान्तां प्रवरकवयः साधु तां सङ्गिरन्ते ।। १८ ।। अन्वयः-हे छान्दोज्ञानप्रसितधिषण ! यत्र वृत्ते यदि हि प्राक् चत्वारः (वर्णाः ) गुरवः ( स्युः ) दशैकादशौ च द्वादशानन्यौ तद्वदेव अन्त्यावपि च द्वौ ( वर्णी गुरू स्यानाम् ), युगरसहयैः विरामश्च (स्यात् )। प्रवरकवयः अनारतं तां मन्दाक्रान्तां साधु सङ्गिरन्ते ।
व्याख्या-हे छन्दोज्ञानप्रसितधिषण ! हे छन्दोज्ञानतत्परबुद्ध ! यत्र यस्मिन वृत्ते छन्दसि यदि हि चेन्ननु प्राक् प्रथमं चत्वारः चतुःसंख्यकाः वर्णा अक्षराणि गुरवः दोर्घाः स्युः। दशैकादशौ दशसंख्यकैकादशसंख्यकौ च तथा द्वादशानन्यौ त्रयोदशचतुर्दशी तद्वदेव तथैव अन्त्यौ षोडश-सप्तदशौ च द्वौ (वौँ अक्षरे गुरू दी/ स्याताम् ), युगरसहयैः चतुर्भिः षड्भिः सप्तभिश्च अक्षरैः विरामः विश्रामो

Page Navigation
1 ... 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34