________________
श्रुतबोधः
व्याख्या-हे कुशाग्रवत् तीक्ष्णमते ! हे अतितोचबुद्धे ! यदि चेत् कदाचित् जातुचित् इन्द्रवज्राचरणेषु इन्द्रवज्रासकलपादेषु पूर्व प्रथमे वर्णाः अक्षराणि लघवः हस्वाः भवन्ति वर्तन्ते, तदानीं तदा कवीन्द्रैः कविश्रेष्टैः सा उपेन्द्रवज्रा कथिता उक्ता। उदाहरणं यथा
उपेन्द्र ! वज्रादिमणिच्छटाभिविभूषणानां छुरितं वपुस्ते ।
स्मरामि गोपीभिरुपास्यमानं सुरद्रुमूले मणिमण्डपस्थम् ॥ भाषा-यदि इन्द्रवज्रा के सब चरणों में प्रथम अक्षर हस्व हो तो वह उपेन्द्रवज्रा छन्द कहा गया है ॥ २२ ॥
(२०) उपजातिच्छन्दः यत्र द्वयोरप्यनयोस्तु पादा भवन्ति सवृत्ततयाऽतिकान्त !। विद्वद्भिराद्यैः परिकीतिता सा प्रयुज्यतामित्युपजातिरेषा ।। २३ ॥
अन्वयः-हे सद्वृत्ततया अतिकान्त ! यत्र अनयोः द्वयोः अपि तु पादाः भवन्ति । आद्यैः विद्वद्भिः परिकीर्तिता सा एषा उपजातिः इति प्रयुज्यताम् ।
व्याख्या-हे सवृत्ततयाऽतिकान्त ! हे सद्यवहारतयाऽतिसुन्दर ! यत्र यस्मिन् छन्दसि अनयोः इन्द्रवज्रोपेन्द्रवज्रयोः द्वयोः उभयोः अपि पादाश्चरणाः (प्रथमतृतीयाविन्द्रवज्रायाः द्वितीयचतुर्थावुपेन्द्रवज्रायाः) स्युस्तदा आद्यैः प्राचीनः विद्वद्भिः पण्डितैः परिकीर्तिता प्रतिपादिता सा असौ एषा इयमुपजातिः तन्नामकं वृत्तं प्रयुज्यता कथ्यताम् । उदाहरणं यथा
अत्रानुगोदं मृगयानिवृत्तस्तरङ्गवातेन विनीतखेदः ।
रहस्त्वदुरसङ्गनिषण्णमूर्धा स्मरामि वानीरगृहेषु सुप्तः ॥ भाषा-जिस छन्द के प्रथम और तृतीय पाद इवत्रा के हो और द्वितीय तथा चतुर्थ पाद ठपेन्द्रवज्रा* के हों वह उपजाति छन्द कहा गया है ॥ २३ ॥
* वस्तुतः इन्द्रवज्रा के प्रथम और तृतीय तथा उपेन्द्रवज्रा के द्वितीय चतुर्थ पाद ही के रहने से उपजाति छन्द नहीं होता, किन्तु इन्द्रवज्रा और उपेन्द्रवज्रा के न्यूनाधिक रूप में किसी पाद के होने पर भी उपजाति छन्द होता है। इस प्रकार उपजाति के १४ भेद होते हैं। सविस्तर वृत्तरत्नाकर की नारायणी टीका में देखिये।