________________
अश्लीलांशवजितः
व्याख्या - यस्याः वृत्तेः प्रथमे आधे पादे चरणे द्वादश मात्रा (भवन्ति ) तथा तृतीयेऽपि पादे चरणे ( द्वादश मात्रा भवन्ति ) । द्वितीये (पादे) अष्टादश ( मात्रा भवन्ति ) चतुर्थ के चतुर्थे ( पादे च ) पञ्चदश मात्रा भवन्ति । सा आर्या नाम वृत्तिः भवतीति शेषः । आर्यायां पूर्वार्द्ध त्रिंशन्मात्रा परार्द्धे च सप्तविंशतिमात्रा भवन्तीति भावः ।
उदाहरणं यथा—
सा जयति जगत्यार्या देवी दिवमुत्पतिष्णुर तिरुचिरा । दृश्यतेऽम्बरतले कंसवधोत्पातविद्युदिव ॥
या
भाषा - जिस छन्द के प्रथम और तृतीय चरण में बारह-बारह मात्रायें, द्वितीय चरण में अठारह मात्रायें और चतुर्थ चरण में पन्द्रह मात्रायें हों वह आर्या नाम का छन्द कहा जाता है ॥ ४ ॥
( २ ) गीति: ( आर्या ) छन्दः
आर्या पूर्वार्धसमं द्वितीयमपि यत्र भवति साधुगते ! | छन्दोविदस्तदानीं गीति तां प्राक्तना हि भाषन्ते ॥ ५ ॥
अन्वयः - हे साधुगते ! सज्जनाचरणशालिन् ! यत्र यस्मिन् वृत्ते द्वितीयम् उत्तरार्द्धमपि आर्या पूर्वार्द्धसमम् आर्याप्रथमार्द्धतुल्यं भवति । प्राक्तनाः प्राचीनाः छन्दोविदः छन्दोज्ञातारः ( पण्डिताः ) तदानीं तां पूर्वोत्तलक्षणलक्षितां गीतिं तन्नाम्नीम् (आय) हि निश्चयेन भाषन्ते कथयन्ति ।
उदाहरणं यथा
१
केशव वंशगीतिक मनोहरिणहारिणी जयति । गोपीमान ग्रन्थेर्विमोचनी दिव्यगायनाश्चर्या ॥
भाषा - जिस छन्द के पूर्वार्द्ध और उत्तरार्द्ध दोनों आर्या के पूर्वार्द्ध के तुल्य हो, उसे कवियों ने गीति नामक छन्द कहा है ॥ ५ ॥
(३) उपगीतिः (आर्या ) छन्दः
आर्योत्तरार्द्धतुल्यं प्रथमार्धमपि प्रयुक्तं चेत् |
लोके तामुपगीतिं प्रकाशयन्ते महाकवयः ॥ ६ ॥