Book Title: Shrutbodha
Author(s): Kanaklal Thakur, Bramhashankar Mishr
Publisher: Chaukhamba Vidyabhavan

View full book text
Previous | Next

Page 12
________________ अश्लीलांशवर्जितः व्याख्या-हे विमलमते ! निर्मलबुद्धे ! यत्र यस्मिन् छन्दसि चतुष्कं प्रथमतो वर्णचतुष्टयम् अगुरु गुरुभिन्नं लावति यावत् भवति विद्यते ( ततो) द्वौ वर्णी गुरू दीघों भवतः, असावेषा शशिवदमा तन्नामच्छन्दो भवति । उदाहरणं यथाशशिवदनानां ब्रजतरुणीनाम् । हृदयविनोदं मधुरिपुरैच्छत् ॥ भाषा-जिसके प्रथम से चार अक्षर लघु और पाँचवा तथा छठा अक्षर गुरु हों, उसे शशिवदना छन्द कहते हैं ॥ ८ ॥ (६) मदलेखा छन्दः तुर्य पञ्चमकं चेद्यत्र स्याल्लघु विद्वन् ! । छन्दोविद्भिरवश्यं प्रोक्ता सा मदलेखा ।। ६ ।। अन्ययः-हे विद्वन् ! यत्र तुर्य पञ्चमकं लघु चेत् स्यात् सा छन्दोविद्भिः मदलेखा अवश्यं प्रोक्ता। व्याख्या-हे विद्वन् ! मनीषिन् ! यत्र यस्मिन् छन्दसि तुर्य चतुर्थ पञ्चमकं पञ्चमं च अक्षरं लघु हस्वं चेत् यदि स्यात् भवेत् , (तदा) सा इयं छन्दोविद्भिः छन्दःशास्त्र-पण्डितैः मदलेखा अवश्यं प्रोक्ता कथिता । उदाहरणं यथा रङ्गे बाहुविरुग्णाद् दन्तीन्द्रान्मदलेखा । लग्नाऽभून्मुरशत्रौ कस्तूरीरसचर्चा ॥ भाषा-जिसके चतुर्थ और पञ्चम अक्षर लघु हों, उसे छन्द के पण्डितों ने मद लेखा निश्चित कहा है ॥ ९ ॥ (७) अष्टाक्षरजाता ( अनुष्टुप् ) छन्दः श्लोके षष्ठं गुरु ज्ञेयं सर्वत्र लघु पञ्चमम् । द्विचतुष्पादयोह्रस्वं सप्तमं दीर्घमन्ययोः ॥१०॥ अन्वयः-श्लोके सर्वत्र लघु पष्टं (च) गुरु, द्विचतुष्पादयोः सप्तमं हस्वम् अन्ययोः ( सप्तमं ) दीर्घ ज्ञेयम् । व्याख्या-श्लोकेऽनुष्ठुभि सर्वत्र चतुर्यु पादेषु पञ्चमं पञ्चमाक्षरं लघु हस्वं षष्ठं पष्ठातरं गुरु च दीर्घ, द्विचतुष्पादयोः द्वितीय-चतुर्थ चरणयोः सप्तमम् अक्षरं ह्रस्वं लघु, अन्ययोः प्रथमतृतीयचरणयोः सप्तममक्षरं दीर्घ द्विमात्रिकम ज्ञेयम् बोध्यम् ।

Loading...

Page Navigation
1 ... 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34