Book Title: Shravak Bhoomi
Author(s): Karunesha Shukla
Publisher: Kashi Prasad Jayaswal Research Institute

View full book text
Previous | Next

Page 576
________________ 470 श्रावभूमी नैष्क्रम्यभूमिः यावत्स्प्रष्टव्य रागप्रति संवेदी । विशारदश्च भवति । गम्भीर [5] बुद्धिविपुलप्रश्रब्धिचित्तकायोपगूढः । अनभिध्यालुरविक्षोभ्यः । क्षमावान्न चास्य कामवितर्का - दयः पापकाश्चित्तं क्षोभयन्ति । इत्येवं भागीयानि - वीतरागलिंगानि वेदितव्यानीत्ययं तावत् लौकिकमार्गगमनस्य विभागः । अथ लोकोत्तरेण मार्गेण गन्तुकामो भवति तस्य चत्वार्यार्यसत्यान्यार[6]भ्य सप्त मनस्कारा अनुपूर्व्वे - णोत्पद्यन्ते । लक्षणप्रतिसंवेदी [ दि] मनस्कारादयः प्रयोगनिष्ठाफलपर्यवसाना यावदहंत्त्व प्राप्तेः । तत्र चतुर्णामार्यंसत्यानां सोद्देशविभंगानां श्रमणेनोद्गृहीतयोगाचारः । सुभावितमनस्कारो वा, मौलध्यानारूप्यलाभी वा, चतुभिराकारैर्दु:खसत्यस्य लक्षणं प्र [7]तिसंवेदयते । तद्यथाऽनित्याकारेण, दुःखाकारेण, अनात्माकारेण च । चतुभिराकारैः समुदयसत्यस्य तद्यथा हेतुतः, समुदयतः प्रभवतः, प्रत्ययतश्च [1] चतुभिराकारैर्निरोधसत्यस्य लक्षणं प्रतिसम्वेदयते । तद्यथा निरोधत:, शान्ततः प्रणीततो, निःसरणतश्च [ । ] चतुभिराकारैर्मार्गसत्यस्य लक्षणं प्रतिसम्वेदयते । तद्यथा मार्गतो, न्यायतः [ 8 ] प्रतिपत्तितो, नैर्याणिकतश्च' । सो [s]स्य भवति लक्षणप्रतिसंवेदी मनस्कारः ॥ 1. On the षोडशाकारs, vide, Mvy. Sec. Liii. ,

Loading...

Page Navigation
1 ... 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602 603 604 605 606 607 608 609 610 611 612 613 614 615 616 617 618