Book Title: Shravak Bhoomi
Author(s): Karunesha Shukla
Publisher: Kashi Prasad Jayaswal Research Institute
View full book text
________________
468
श्रावभूमौ नैष्क्रम्यभूमिः
तत्रार्यायाश्चानार्याया ऋद्धेरयं विशेष: । आर्यया ऋद्ध्या यद्यदेव वस्तु परिणामयति । यद्यदेव निमित्तं निर्मिणोति' । तत्तथैव भवति ।
नान्यथा ।
सर्वेण तेन कार्यं शक्यते कर्तुम् । अनार्यया न पुर्न तथैव भवत्यपि तु । मायाकारकस्यैव संदर्शनमात्रकं ख्याति । [6] एवमाभिर्द्वादशभि: संज्ञाभिबेहुलीकारान्वयाद्यथायोगं स पञ्चानामभिज्ञानामार्याणां च गुणानामपृथग्जनसन्धारणानां यथायोगमभिनिर्हारो वेदितव्यः ॥
तत्र प्रथमे ध्याने मृदुमध्याधिमात्रपरिभावितेन यथायोगं ब्रह्मकायिकानां ब्रह्मपुरोहितानां महाब्रह्मणां देवानां सभागतायामुपसम्पद्यते [1] [7] द्वितीये ध्याने मृदुमध्याधिमात्रभाविते यथायोगं परीत्तानामाभास्वराणां च देवानां सभागतायामुपसंपद्यते । तृतीये ध्याने मृदुमध्याधिमात्रभाविते यथायोगं परीत्तशुभानां, सप्रमाणशुभानां, शुभकृत्यानां च देवानां सभागतायामुपसंपद्यते । चतुर्थे ध्याने मृदुमध्याधिमात्रभाविते 14A-1 // // [1] यथायोगमनभ्रकानां, पुण्यप्रसवानां, बृहत्फलानां च देवानां सभागतायामुपसम्पद्यते । स चेत्पुनरनागामी अनास्रवेण ध्यानेन चतुर्थेन सास्रवं व्यवकीर्णं
"
1. Wayman adds यत्र यत्रैवाधिमुच्यते on the basis of the Tib. : gan dan gan la mos par mzad pa.
2. Wayman reads तच्चैव.
Page Navigation
1 ... 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602 603 604 605 606 607 608 609 610 611 612 613 614 615 616 617 618