Book Title: Shravak Bhoomi
Author(s): Karunesha Shukla
Publisher: Kashi Prasad Jayaswal Research Institute

View full book text
Previous | Next

Page 587
________________ चतुर्थ योगस्थानम् 481 (ष्टा) भवन्त्यरोगिणः, सुखिनो, बलवन्तः। सो[s]परेण समयेन पश्यत्यात्मानम्वा, परम्वा, आबाधिकं, दुःखितं, बाढग्लानं, स्पृष्टं शारीरिकाभिर्वेदनाभिः दुःखाभिस्तीवाभिरिति विस्तरेण पूर्ववत् । तत्र कथं क्लेशकृतां[6] विपरिणा[मा] नित्यता व्यवचारयति। इहानेनेकदा[5]त्मा च परे च दृष्ट्वा (दृष्टा) भवन्त्यरोगिणः, सुखिनो, बलवन्तः । सोपरेण समयेन पश्यत्यात्मानम्वा, परम्वा, आबाधिकं, दुःखितं, बाढग्लानं, स्पृष्टं शारीरिकाभिर्वेदनाभिः । स पुनरपरेण समयेन पश्यत्यरोगिणं, सुखितं, बलवन्तं, दृष्ट्वा च पुनरस्यैवं भवत्यनित्या बत (ते) [7]मे संस्कारा इति पूर्ववत् ॥ तत्र कथं मरणकृतां विपरिणामानित्यतां व्यवचारयति। इहायं जीवितं पश्यति ध्रियन्तं, तिष्ठन्तं, यापयन्तं, सोपरेण समयेन मृतं कालगतं पश्यति । विज्ञानशून्यं कलेवरं दृष्ट्वा च पुनरस्यैवं भवतीति विस्तरेण पूर्ववत् ॥ तत्र कथं [वि]नीलकादिकृतां विपरिणामानित्यतां व्यव[8]चारयति । सोपरेण समयेन ताम (तद) स्थिशंकलिकावस्थानं पश्यति । स तदेव मृतकलेवरं विनीलकावस्थमेकदा पश्यति । एकदा विपूयकावस्थमेनं विस्तरेण यावस्थिशंकलिकावस्थं दृष्ट्वास्यैवं भवत्यनित्या बत (ते) मे संस्कारा इति विस्तरेण

Loading...

Page Navigation
1 ... 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602 603 604 605 606 607 608 609 610 611 612 613 614 615 616 617 618