________________
470
श्रावभूमी नैष्क्रम्यभूमिः
यावत्स्प्रष्टव्य रागप्रति संवेदी । विशारदश्च भवति । गम्भीर [5] बुद्धिविपुलप्रश्रब्धिचित्तकायोपगूढः । अनभिध्यालुरविक्षोभ्यः । क्षमावान्न चास्य कामवितर्का - दयः पापकाश्चित्तं क्षोभयन्ति । इत्येवं भागीयानि - वीतरागलिंगानि वेदितव्यानीत्ययं तावत् लौकिकमार्गगमनस्य विभागः ।
अथ लोकोत्तरेण मार्गेण गन्तुकामो भवति तस्य चत्वार्यार्यसत्यान्यार[6]भ्य सप्त मनस्कारा अनुपूर्व्वे - णोत्पद्यन्ते । लक्षणप्रतिसंवेदी [ दि] मनस्कारादयः प्रयोगनिष्ठाफलपर्यवसाना यावदहंत्त्व प्राप्तेः । तत्र चतुर्णामार्यंसत्यानां सोद्देशविभंगानां श्रमणेनोद्गृहीतयोगाचारः । सुभावितमनस्कारो वा, मौलध्यानारूप्यलाभी वा, चतुभिराकारैर्दु:खसत्यस्य लक्षणं प्र [7]तिसंवेदयते । तद्यथाऽनित्याकारेण, दुःखाकारेण, अनात्माकारेण च । चतुभिराकारैः समुदयसत्यस्य तद्यथा हेतुतः, समुदयतः प्रभवतः, प्रत्ययतश्च [1] चतुभिराकारैर्निरोधसत्यस्य लक्षणं प्रतिसम्वेदयते । तद्यथा निरोधत:, शान्ततः प्रणीततो, निःसरणतश्च [ । ] चतुभिराकारैर्मार्गसत्यस्य लक्षणं प्रतिसम्वेदयते । तद्यथा मार्गतो, न्यायतः [ 8 ] प्रतिपत्तितो, नैर्याणिकतश्च' । सो [s]स्य भवति लक्षणप्रतिसंवेदी
मनस्कारः ॥
1. On the षोडशाकारs, vide, Mvy. Sec. Liii.
,