Book Title: Shataka Trayadi Subhashit Sangraha
Author(s): Bhartuhari, Dharmanand Kosambi
Publisher: Bharatiya Vidya Bhavan
View full book text
________________
विज्ञानशतकम् ।
विपश्चिद् देहादौ क्वचिदपि ममत्वं न कुरुते परब्रह्मध्याता गगननगराकारसदृशे । निरस्ताहंकारः श्रुतिजनित विश्वासमुषितो निरातङ्कोऽव्यग्रः प्रकृतिमधुरालापचतुरः ॥ १२ ॥ अरे चेतश् चित्रं भ्रमसि यदपास्य प्रियतमं मुकुन्दं पार्श्वस्त्रं पितरमपि मान्यं सुमनसाम् । बहिः शब्दाद्यर्थे प्रकृतिचपले कुशबाहुले
न ते संसारेsस्मिन् भवति सुखदाद्यापि विरतिः ।। १३ ।। (७६) नजानीषे मूर्ख क्वचिदपि हितं लोकमहितं भ्रमद्भोगाकाङ्गाकलु पिततया मोहबहुले ।
जगत्यत्रारण्ये प्रतिपदमनेकापदि सदा
हरिध्याने व्यग्रं भव सकलतापैककदने ॥ १४ ॥ (४८) वियद्भूतं भूतं यदवनलभं (1) चाखिलमिदं
महामायासङ्गाद् भुजग इव रज्वां भ्रमकरम् । तदत्यन्ताह्लादं ह्यजरममरं चिन्तय मनः
परब्रह्माव्यग्रं हरिहरसुराद्यैरवगतम् ॥ १५ ॥ (२३) न चेत ते सामर्थ्य भवनमरणातहरणे मनोऽनिर्दिष्टेऽस्मिन्नपगतगुणे ज्ञातुमकले । तदा मेघश्यामं कमलदलदीर्घाक्षममलं
भजख श्रीरङ्गं शरदमृतधामाधिकमुखम् ॥ १६ ॥ क यातः कायातो द्विज कलयसे रत्नमटवीम् अटन् व्याघ्राघ्रातो मरणमगमद् विश्वमहितः । अयं विद्यारामो मुनिरह ह केनापि विदुषा
न खल्वात्मप्रायो भवतु सुकरो ज्ञातुमशिवः ॥ १७ ॥ (*) अहं श्रान्तोऽध्वानं बहुविधमतिक्रम्य विषमं धनाकाङ्क्षाक्षिप्तः कुनृपतिमुखालोकनपरः ।
इदानीं केनापि स्थितिमुदरकूपस्य भरणे
कदन्नेनारण्ये कचिदपि समीहे स्थिरमतिः ॥ १८ ॥ (७७)
12) विश्वाससुभगो. 14 “) B चेतः (for मूर्ख). पृथ्वीवायुज्वलन जलजं चाखि ● ) N विजरममरं. 16 ) 17 Omitted in B.
Jain Education International
For Private & Personal Use Only
२१३
15 ) B विय अवगत- (Cor अपगत ).
www.jainelibrary.org
Page Navigation
1 ... 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346