SearchBrowseAboutContactDonate
Page Preview
Page 318
Loading...
Download File
Download File
Page Text
________________ विज्ञानशतकम् । विपश्चिद् देहादौ क्वचिदपि ममत्वं न कुरुते परब्रह्मध्याता गगननगराकारसदृशे । निरस्ताहंकारः श्रुतिजनित विश्वासमुषितो निरातङ्कोऽव्यग्रः प्रकृतिमधुरालापचतुरः ॥ १२ ॥ अरे चेतश् चित्रं भ्रमसि यदपास्य प्रियतमं मुकुन्दं पार्श्वस्त्रं पितरमपि मान्यं सुमनसाम् । बहिः शब्दाद्यर्थे प्रकृतिचपले कुशबाहुले न ते संसारेsस्मिन् भवति सुखदाद्यापि विरतिः ।। १३ ।। (७६) नजानीषे मूर्ख क्वचिदपि हितं लोकमहितं भ्रमद्भोगाकाङ्गाकलु पिततया मोहबहुले । जगत्यत्रारण्ये प्रतिपदमनेकापदि सदा हरिध्याने व्यग्रं भव सकलतापैककदने ॥ १४ ॥ (४८) वियद्भूतं भूतं यदवनलभं (1) चाखिलमिदं महामायासङ्गाद् भुजग इव रज्वां भ्रमकरम् । तदत्यन्ताह्लादं ह्यजरममरं चिन्तय मनः परब्रह्माव्यग्रं हरिहरसुराद्यैरवगतम् ॥ १५ ॥ (२३) न चेत ते सामर्थ्य भवनमरणातहरणे मनोऽनिर्दिष्टेऽस्मिन्नपगतगुणे ज्ञातुमकले । तदा मेघश्यामं कमलदलदीर्घाक्षममलं भजख श्रीरङ्गं शरदमृतधामाधिकमुखम् ॥ १६ ॥ क यातः कायातो द्विज कलयसे रत्नमटवीम् अटन् व्याघ्राघ्रातो मरणमगमद् विश्वमहितः । अयं विद्यारामो मुनिरह ह केनापि विदुषा न खल्वात्मप्रायो भवतु सुकरो ज्ञातुमशिवः ॥ १७ ॥ (*) अहं श्रान्तोऽध्वानं बहुविधमतिक्रम्य विषमं धनाकाङ्क्षाक्षिप्तः कुनृपतिमुखालोकनपरः । इदानीं केनापि स्थितिमुदरकूपस्य भरणे कदन्नेनारण्ये कचिदपि समीहे स्थिरमतिः ॥ १८ ॥ (७७) 12) विश्वाससुभगो. 14 “) B चेतः (for मूर्ख). पृथ्वीवायुज्वलन जलजं चाखि ● ) N विजरममरं. 16 ) 17 Omitted in B. Jain Education International For Private & Personal Use Only २१३ 15 ) B विय अवगत- (Cor अपगत ). www.jainelibrary.org
SR No.002915
Book TitleShataka Trayadi Subhashit Sangraha
Original Sutra AuthorBhartuhari
AuthorDharmanand Kosambi
PublisherBharatiya Vidya Bhavan
Publication Year1948
Total Pages346
LanguageHindi, English
ClassificationBook_Devnagari & Literature
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy