________________
२१२
भर्तृहरिसुभाषितसंग्रहै.
2 The Vijñāna ataka. [In reporting variants, N refers to the Nagpur odition of 1897, B to the current Bombay edition; B sloka numbers aro givou in brackots or footnotes wherever they riffer from N numbers. ] विगलदमलदानश्रेणिसौरम्यलोभोपगतमधुपमालाव्याकुलाकाशदेशः। अवतु जगदशेपं शश्वदुग्रात्मजो यो विपुलपरिघदन्तोदण्डशुण्डो गणेशः॥१॥ यत्सत्तया शुचि विभाति यदात्मभासा प्रद्योतितं जगदशेषमपास्तदोषम् । तद् ब्रह्म निष्कलमसङ्गमपारसौख्यं प्रत्यग् भजे परममङ्गलमद्वितीयम् ॥ २.॥ माता मृता जनयितापि जगाम शीघ्रं लोकान्तरं तव कलत्रसुतादयोऽपि । भ्रातस् तथापि न जहासि मृषाभिमानं दुःखात्मके वपुषि मूत्रकुदर्पकूपे ॥३॥ ब्रह्मामृतं भज सदा सहजप्रकाशं सर्वान्तरं निरवधि प्रथितप्रभावम् । यद्यस्ति ते जिगमिषा सहसा भवाब्धेः पारे परे परमशर्मणि निष्कलङ्के॥४॥ आरभ्य गर्भवसतिं मरणावसानं यद्यस्ति जीवितुमदृष्टमनेककालम् । जन्तोस तथापि न सुखं सुखविभ्रमोऽयं यद् बालया रतिरनेकविभूतिभाजः॥५ सा रोगिणी यदि भवेदथ वा विवर्णा बाला प्रिया शशिमुखी रसिकस्य पुंसः । शल्यायते हृदि तथा मरणं कृशाङ्यायत्तस्य सा विगतनिद्रसरोरुहाक्षी ॥६॥ त्वत्साक्षिकं सकलमेतदवोचमित्थं भ्रातर्विचार्य भवता करणीयमिष्टम् । येनेदृशं न भविता भवतोऽपि कष्टं शोकाकुलस्य भवसागरमग्नमूर्तः ॥७॥ निष्कण्टकेऽपि न सुखं वसुधाधिपत्ये कस्यापि राजतिलकस्य यदेष देवः। विश्वेश्वरो भुजगराजविभूतिभूपो हित्वा तपस्यति चिरं सकला विभूतीः ॥ ८॥ भूमण्डल लयमुपैति भवत्यबाधं लब्धात्मक पुनरपि प्रलयं प्रयाति । आवर्तते सकलमेतदनन्तवारं ब्रह्मादिभिः सममहो न सुखं जनानाम् ॥९॥
यदा देवादीनामपि भवति जन्मादि नियतं
महाहर्म्यस्थाने ललितललनालोलमनसाम् । तदा कामार्तानां सुगतिरिह संसारजलधौ
निमग्रानामुच्चै रतिविषयशोकादिमकरे ॥ १० ॥ (४७) स्वयं भोक्ता दाता वसु सुबहु संपाद्य भविता
कुटुम्बानां पोष्टा गुण निधिरशेषेप्सितनरः। इति प्रत्याशस्य प्रबलदुरितानीतविधुरं
शिरस्यस्याकस्मात् पतति निधनं येन भवति ॥ ११ ॥ (७२) 1 ) N°त्मदर्यो?; B°मदपौ. -")B परिधिदन्तो'. 2 ") B सदिदमस्ति ( for शुचि विभाति). 6 ) B कृशाङ्गी (for कृशाङ्गया.). 7 ) Dभअति (for भविता). 8 ) B विभूतिः. 10 ") B महारम्ये स्थाने.
Bnumbers: 3 = 61,429,5 09,6-69.7%3D61,S-70,9374.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org