SearchBrowseAboutContactDonate
Page Preview
Page 316
Loading...
Download File
Download File
Page Text
________________ वित्तम् । यदि वा रक्तया दत्तं तथापि त्वं न शोभसे । अहं गोपायिता तस्य कस्योक्तं वा मया पुनः ॥ ७८ ॥ कोशात् तदप्यधिष्ठानं कर्तव्यं शुद्धचेतसा । शपथी हीनदोपाय कामिनी पूच्यते बुधैः ॥ ७९ ॥ कुट्टिनीनां पुरो देयो व्यवहारस तु कामिना । वेश्यां यो नातिसंधत्ते मूढोऽसाविति साध्यते ॥ ८० ॥ तदेवार्थयते येन पूर्वोक्तं नोत्तरं स्पृहा । यथार्थं व्यवहारज्ञा वेश्या भूयो न वयते ॥ ८१ ॥ नासावा मरणादित्थं पैरित्यजति तं विटम् । उभयोस्त्यागजं दुःखं कः कुर्यादर्थमित्रयोः ॥ ८२ ॥ हितमिममुपदेशं कुर्वता लोकदृष्टिं मितमपरिमितार्थं यन्मयोपात्तमत्र । जनितयुवतिरागाः सन्तु पुण्येन तेन प्रतिहतरतिविघ्नाः प्राणिनः सौख्यभाजः ८३ जानकीवदनोल्लासहेतुं सेतुं बबन्ध यः । तत्पाद सेविनालेखि विटवृत्तं द्विजन्मनाम् ॥ ८४ ॥ ॥ इति विश्वृत्तम् ॥ Jain Education International For Private & Personal Use Only ૩૫ www.jainelibrary.org
SR No.002915
Book TitleShataka Trayadi Subhashit Sangraha
Original Sutra AuthorBhartuhari
AuthorDharmanand Kosambi
PublisherBharatiya Vidya Bhavan
Publication Year1948
Total Pages346
LanguageHindi, English
ClassificationBook_Devnagari & Literature
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy