________________
२१०
भर्तृहरिसुभाषितसंग्रहे
1184 11
"
यावद् ददाति नाशेषमहार्यं पण्ययोषिताम् । तावदप्रियमध्येनं भुञ्जते प्रियवद् बलात् ॥ ६२ ॥ युगपद बहु संप्राप्य वेश्या त्यजति कामिनम् । सपदि प्रियमप्येनं वैरं वा कुरुते ध्रुवम् ॥ ६३ ॥ दातव्यं मुखताम्बूलमप्रियेण प्रियेण वा । अवल्लभेन नात्यर्थं तदेवेष्टजनप्रियम् ॥ ६४ ॥ वयः शीतन्त्वचीमुस्तान्धूपोऽल्पो मुखवासकम् । पत्रं खदिरसंयुक्तं तथा सर विटैरेवं तु वामानामेतान्येवंविधानि तु । देशकालोपपन्नानि प्रीयते न च तद्वचः ॥ ६६ ॥ ताम्बूलं मदिरा माल्यं सुगन्धं च विलेपनम् । अतिव्ययेन दातव्यं रतिकालोपयोगतः ॥ ६७ ॥ विटैरनेकवेश्यानामेकान्येवंविधानि तु । देशकालोपपन्नानि प्रियाण्येव न चाप्रियम् ॥ ६८ ॥ इमानि प्रायशस् तानि वेश्यास्वेवं प्रदापयेत् । सामुञ्चत्यचिरात् सर्वमुपभोगं तदात्मनः ॥ ६९ ॥ प्रत्यागतेन संपर्क निर्विघ्नमभिवाञ्छता । न देयं गच्छताध्वानं योषितां पूर्वकल्पितम् ॥ ७० ॥ आलोकयति पन्थानं दास्यतीत्यागतः किल । रचयत्यादराद् वेणीं यदि नान्यैर्वशीकृता ॥ ७१ ॥ अपरित्यक्तमात्मानमिच्छता पण्ययोषिताम् । नित्योपयोगिकं द्रव्यमात्मसारं प्रदर्शयेत् ॥ ७२ ॥ ग्राह्यं ग्रहणकं किंचिद् व्यपदेशेन केनचित् । हस्ते तिष्ठति तद्यावत्तावदन्यं न सेवते ॥ ७३ ॥ कुतश्चित् संप्रदश्यैव केयूरमकरादिकम् । कुट्टिन्या च सहोद्धारं तन्नाम्नैवाभिलेखयेत् ॥ ७४ ॥ वेश्यया सह संभोगं नीत्वा द्रव्यं तदात्मनः । कृत्वा तदवशिष्टेन [ देयं ] दत्त्वा प्रशस्यते ॥ ७५ ॥ यस्मिन् प्रार्थयते काले सुवर्ण पूर्वमर्पितम् । तद्विस्यातिसंधातुं न्यायं तत्रेदमुत्तरम् ॥ ७६ ॥ स्वयं देयः स उद्धारस् तुल्यमत्राल्पयापि वा । सर्व च मातृनाम्नैव वणिजं किं न पृच्छसि ॥ ७७ ॥
Jain Education International
.........
For Private & Personal Use Only
www.jainelibrary.org