________________
२०९
विटवृत्तम् । विटानां चरितैरेमिः कषायैस तु कषायिता । सुतरां रज्यते नारी न च रागं विमुञ्चति ॥ ४६॥ नारी रक्तानुरक्ता चाप्यतिरक्ता तथापरा । संक्षेपात् कामतत्रज्ञैस त्रिविधैव निगद्यते ॥४७॥ नाभिलाषो रते यस्याः पूर्व समुपजायते । प्रयुक्ते च न चोद्वेगं सा रक्ता संग्रकीर्तिता ॥ ४८॥ रतिं प्रार्थयते या तु तत्र याति परां मुदम् ।। न च तेन विनैवास्ते सानुरक्ताभिधीयते ॥४९॥ प्राप्तापि रतिसंभोगं रतेच्छां या न मुश्चति । अभियोक्री भवेद् भूयः सातिरक्ता प्रकीर्तिता ॥ ५० ॥ यथोक्तलक्षणैज्ञेया यथायोगं विपर्ययात् । त्रिविधैव विरक्तोक्ता कामिनी कामपण्डितैः ॥ ५१ ॥ त्रिविधम् तु मतः कामी प्रियोऽनुप्रिय एव च । अतिप्रियस तु विज्ञेयम् तृतीयः कामवेदिभिः ॥ ५२ ॥ प्रथमायाः प्रियो ज्ञेयो मध्यमायास त्वनुप्रियः। अतिप्रियस् तृतीयायाम तथा योऽन्यो न सेवते ॥ ५३॥ प्रबोधयति या सुप्तं निद्रया नाभिभूयते । भूयः सुरतमप्राप्य नैवाप्तेनातिरागिणी ॥ ५४॥ या तु पश्यत्यपश्यन्तं मदमायाति वीक्षिता । वीक्षितं चेक्षते नित्यं विज्ञेया सानुरागिणी ॥ ५५ ॥ रक्ताल्पमपि या दानं कामिनी बहु [मन्यते । अतोऽन्यथापि विज्ञेया विपरीता विचक्षणैः ॥५६॥ गत्वा वेश्यासु विश्वासं प्रियोऽस्मीतिच कामिना । वेश्यागृहे न न्यस्तव्यं सारद्रव्यं कदाचन ॥५७॥ अनृजुत्वमसद्भावं कार्पण्यं चलचित्तता । पुंसां मित्रेषु ये दोषास ते वेश्यासु गुणाः स्मृताः ॥५८॥ क्षीणठक्कुरदत्तस्य वेश्याहस्तगतस्य च । निक्षिप्तस्य किरातेन पुनर्मोक्षो न विद्यते ॥ ५९॥ मरुद्देशसमुत्पन्नशिलासलिलसंनिभम् । कामिना सर्वदा दाहं वेश्यास्त्रीषु प्रशस्यते ॥ ६० ॥ देशकालानतिक्रान्तमसूचितमयाचितम् । सोपयोगं तथाल्पं च दानं प्रेमनिवन्धनम् ॥ ६१॥ २७ भ. सु.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org