Book Title: Shataka Trayadi Subhashit Sangraha
Author(s): Bhartuhari, Dharmanand Kosambi
Publisher: Bharatiya Vidya Bhavan

View full book text
Previous | Next

Page 330
________________ २२५ २२५ विज्ञानशतकम्। आयुर्वेदविदां रसाशनवतां पथ्याशिनां यत्नतो वैद्यानामपि रोगजन्म वपुषो यन्तर्यतो दृश्यते । दुश्चक्षुःकवलीकृतत्रिभुवनो लीलाविहारस्थितः ___ सर्वोपायविनाशनकचतुरः कालाय तस्मै नमः ॥ ९९ ॥ (६६) ते धन्या भुवने सुशिक्षितपरब्रह्मात्मविद्या जना लोकानामनुरञ्जका हरिकथापीयूषपानप्रियाः। येषां नाकतरङ्गिणीतटशिलाबद्धासनानां सतां प्राणा यान्ति लयं सुखेन मनसा श्रीरङ्गचिन्ताभृताम् ॥१००॥(३७) हे पुत्रा व्रजताभयं या इतो गेहं जनन्या समं रागद्वेषमदादयो भवतु यः पन्थाः शिवोऽमायया । काशी सांप्रतमागतोऽहमह ह क्लेशेन हातुं वपुः सर्वानर्थगृहं सुपर्वतटिनीवीचिश्रिया मण्डितम् ॥ १०१॥ (३) यत्साक्षादभिधातुमक्षमतया शब्दाद्यनालिङ्गितं कूटस्थं प्रतिपादयन्ति विलयद्वारा प्रपञ्चस्त्रजः। मोक्षाय श्रुतयो निरस्तविधयो ध्यानस्य चोच्छित्तये तत्राद्वैतवने सदा विचरताच् चेतःकुरंगः सताम् ॥ १०२ ॥ (३१) बुधानां वैराग्यं सुघटयतु वैराग्यशतकं गृहस्थानामेकं हरिपदसरोजप्रणयिनाम् । जनानामानन्दं वितरतु नितान्तं सुविशदत्रयं शेषव्याख्यागलिततमसां शुद्धमनसाम् ॥ १०३ ॥ ॥ इति श्रीभर्तृहरिविरचितं विज्ञानशतकं चतुर्थम् ॥ 102 ) B [s]ज्ञानस्य (for ध्यानस्ः). 103 . 99 ) N दुश्चक्षोत्कवली'. Omitted in B. २९ भ, सु. Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346