Book Title: Shataka Trayadi Subhashit Sangraha
Author(s): Bhartuhari, Dharmanand Kosambi
Publisher: Bharatiya Vidya Bhavan

View full book text
Previous | Next

Page 324
________________ विज्ञानशतकम्। विश्वेश्वरे भवति विश्वजनीनजन्मविश्वंभरे भगवति प्रथितप्रभावे । यो दत्तचित्तविषयः सुकृती कृतार्थो यत्र क्वचित् प्रतिदिनं निवसन् गृहादौ॥ ५४॥ चिद्रनमत्र पतितं वपुरन्धकूपे पुंसो भ्रमादनुपमं सहनीयतेजः। उद्धृत्य यो जगति तद् भविता कृतार्थो मन्ये स एव समुपासितविश्वनाथः ॥५५॥ यद्येता मदनेषवो मृगदृशशू चेतःकुरङ्गारयो' धीराणामपि नो भवेयुरबलाः संसारमायापुरे । को नामामृतसागरे न रमते धीरः सदा निर्मले ___ पूर्णानन्दमहोमिरम्यनिकरे रागादिनक्रोज्झिते ॥५६ ॥ (४१) बालेयं बालभावं त्यगति न सुदती यत्कटाक्षर्विशालैर् .. अस्मान्विभ्रामयन्ती लसदधरदलाक्षिप्तचूतप्रवाला । नेतुं वाञ्छत्यकामान् स्वसदनमधुना क्रीडितुं दत्तचित्तान् पुष्यनीलोत्पलाभे मुरजिति कमलावल्लभे गोपलीले ॥ ५७ ॥ (४२) शिव शिव महाभ्रान्तिस्थानं सतां विदुषामपि प्रकृतिचपला धात्रा सृष्टाः स्त्रियो हरिणीदृशः । विजहति धनं प्राणैः साकं यतस् तदवाप्तये । जगति मनुजा रागाकृष्टान तदेकपरायणाः ॥५८॥ (३८) हरति वपुषः कान्ति पुंसः करोति बलक्षति जनयति भृशं भ्रान्ति नारी सुखाय निषेविता । विरतिविरसा भुक्ता यस्मात् ततो न विवेकिभिर् विषयविरसैः सेव्या मायासमाश्रितविग्रहा ॥५९ ॥ (३९) कमलवदना पीनोत्तुङ्गं घटाकृति विभ्रती स्तनयुगमियं तन्वी श्यामा विशालगञ्चला । विशददशना मध्यक्षामा वृथेति जनाः श्रमं विदधति मुधा रागादुच्चैरनीदृशवर्णने ॥६०॥ (४०) जनयति सुतं कंचिन् नारी सती कुलभूषणं निरुपमगुणैः पुण्यात्मानं जगत्परिपालकम् । कथमपि न सा निन्द्या वन्द्या भवेन महतां यतः सुरसरिदिव ख्याता लोके पवित्रितभूतला ॥ ६१॥ (४३) 54 4) B विश्वेश्वरो. B जनीनजन्मा. 55 ) B महनीयतेजः. - ) B संद्यः समुद्धरति (for. उद्धृत्य यो जगति). 56 °) N तदा (for सदा). 57 ) B दलक्षिप्त 59 ") N बलक्षिति. -- ) B 'विमुखैः (for °चिरसैः). .60 ) B मध्ये क्षामा. B nos. 51 = 18, 55 = 4. 6l ") B पालनं (for पालकम् ). Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346