Book Title: Shataka Trayadi Subhashit Sangraha
Author(s): Bhartuhari, Dharmanand Kosambi
Publisher: Bharatiya Vidya Bhavan

View full book text
Previous | Next

Page 326
________________ विज्ञानशतकम्। कैवल्यं करबिल्वतुल्यममलं संपद्यते हेलया सा गङ्गा ह्यतुलाऽमलोर्मिपटला सद्भिः कुतो नेक्ष्यते ॥६९॥(८९) तीर्थानामवलोकने सुमनसामुत्कण्ठते मानसं तावद् भूवलये सतां पुररिपुध्यानामृतास्वादिनाम् । यावत् ते न विलोकयन्ति सरितां रोचिष्णुमुक्तावली श्रीमन्नाकतरङ्गिणी हरजटाजूटाटवीविभ्रमाम् ॥ ७० ॥ (९०) संसारो विविधाधिवाधविधुरः सारायते मानसे निःसारोऽपि वपुष्मतां कलिवृकग्रासीकृतानां चिरम् । दृष्टायां घनसारपाथसि महापुण्येन यस्यां सतां. सा सेव्या न कुतो भवेत सुरधुनी स्वर्गापवर्गादया ॥७१॥ (९१) यस्याः संगतिरुन्नतिं वितनुते वाराममीषां जनैर् उद्गीता कविभिर्महेश्वरमनोभीष्टा महीमण्डले । सा सन्तः शरदिन्दुसोदरपयःपूराभिरामा नद कोकश्रेणिमनोज्ञपुण्यपुलिना भागीरथी सेव्यताम् ॥ ७२ ॥ (८४) क्वचिद्धंसश्रेणी सुखयति रिरंसुः श्रुतिसुखं ___ नदन्ती चेतो नो विपुलपुलिने मन्थरगतिः।। तदेतस्या योऽर्थी सुरतरुलता नाकतटिनी __सदा सद्भिः सेव्या सकलपुरुषार्थाय कृतिभिः ॥७३॥ (९२) कलौ गङ्गा काश्यां त्रिपुरहरपुर्या भगवती प्रशस्ता देवानामपि भवति सेव्यानुदिवसम् ।। इति व्यासो ब्रूते मुनिजनधुरीणो हरिकथा सुधापानवस्थो गलितभवबन्धोऽतुलमतिः ॥ ७४ (८३) यावजागर्ति चित्ते दुरितकलुषिते प्राणिनो वित्तपुत्र क्षेत्राद्यर्थेषु चिन्ता तदतिपरतया भ्राम्यमाणस्य नित्यम् । तावन्नार्थस्य सिद्धिर्भवति कथमपि प्रार्थितस्यार्तिभाजा __ कैवल्याख्यस्य लोके रमणसुखभुवो मुक्तदोषानुषक्तेः॥७५॥ (२७) सन्त्यर्था मम संचिताश च बहुधा पित्रादिभिः सांप्रतं वाणिज्यैः कृषिभिः कलाभिरपि तान् विस्तारयिष्यामि वः। हे पुत्रा इति भावयन्ननुदिनं संसारपाशावलिं . _छेत्तायं नु कथं मनोरथमयीं जीवो निरालम्बनः ॥७६ ॥ (६०) ___71 ) N "बधिरः (for "विधुरः). - ) B इष्टायां (for दृष्टायां). 72 d) N 'मनोज' (for मनोज्ञ'). 73 ") B हरन्ती पापौघान्सुरतरुवृता नाकतटिनी.. 75 ") N भ्राम्यमानस्य. 76 ") N बहुविधाः (for च बहुधा). - ) N पाशावली, -") Nतु (for नु). Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346