Book Title: Shataka Trayadi Subhashit Sangraha
Author(s): Bhartuhari, Dharmanand Kosambi
Publisher: Bharatiya Vidya Bhavan

View full book text
Previous | Next

Page 325
________________ २२० भर्तृहरिसुभाषितसंग्रहे धन्या एते पुमांसो यदयमहमिति त्यक्तचेतोविकल्पा . निःशङ्क,संचरन्तो विदधति मलिनं कर्म कामप्रयुक्ताः। जानन्तोऽप्यर्थहीनं जगदिदमखिलं भ्रान्तवद् द्वैतजालं __रागद्वेषादिमन्तो वयमयमिति हा न त्यजन्तेऽभिमानम् ॥६२॥ (१५) प्रज्ञावन्तोऽपि केचिच् चिरमुपनिषदाद्यर्थकारा यतन्तो व्याकुर्वन्तोऽपि केचिद् दलितपरमता यद्यपि ज्ञाततत्त्वाः । तीर्थे तीर्थे तथापि भ्रमणरसिकतां नो जहत्यध्वखेदा __यत् तत् कष्टं विधत्ते मम मनसि सदा पश्यतम् तत्र कृत्यम् ॥६॥(५) तीर्थावस्थानजन्यं न भवति सुकृतं दुष्कृतोन्मूलनं वा यस्मादाभ्यां विहीनः श्रुतिसमधिगतः प्रत्यगात्मा जनानाम् । सर्वेषामद्वितीयो निरतिशयसुखं यद्यपि स्वप्रकाशास् तीर्थे विद्यास तथापि स्पृहयति तपसे यत् तदाश्चर्यहेतुः॥६४॥(४) उदासीनो देवो मदनमथनः सज्जनकुले कलिक्रीडासक्तः कृतपरिजनः प्राकृतजनः। इयं म्लेच्छाक्रान्ता त्रिदशतटिनी चोभयतटे कथं भ्रातः स्थाता कथय सुकृतिन् कुत्र विभयः ॥ ६५ (७९) निःसारा वसुधाधुना समजनि प्रौढप्रतापानल ज्वालाजालसमाकुला द्विपघटासंघट्टविक्षोभिता । म्लेच्छानां रथवाजिपत्तिनिवहैरुन्मूलिता कीदृशी यं विद्या भवितेति हन्त न सखे जानीमहे मोहिताः॥६६॥(८०) वेदो निर्वेदमागादिह नमनभिया ब्राह्मणानां वियोगाद् वैयासिक्यो गिरोऽपि क्वचिदपि विरलाः सांप्रतं सन्ति देशे । इत्थं धर्मे विलीने यवनकुलपती शासति क्षोणिबिम्बं नित्यं गङ्गावगाहाद् भवति गतिरितः संमृतेरर्थसिद्धौ ॥६७॥(८१) गङ्गा गङ्गेति यस्याः श्रुतमपि पठितं केनचिन नाममात्रं दूरस्थस्यापि पुंसो दलयति दुरितं प्रौढमित्याहुरेके । सा गङ्गा कस्य सेव्या न भवति भुवने सज्जनस्यातिभव्या ब्रह्माण्डं प्लावयन्ती त्रिपुरहरजटामण्डलं मण्डयन्ती ॥ ६८॥(८२) यत्तीरे वसतां सतामपि जलैमूलैः फलैर्जीवतां मुक्ताहंममभावशुद्धमनसामाचारविद्यावताम् । 63 ) B नो जहात्यध्वखेदाद. 65 ") N सुकृती (for सुकृतिन्). 64 ") B गतप्रत्यगात्मा. - °) B 'शयसुखो. G8 ") N (wrongly ) मगडयन्तीम्. Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346