________________
२२०
भर्तृहरिसुभाषितसंग्रहे धन्या एते पुमांसो यदयमहमिति त्यक्तचेतोविकल्पा . निःशङ्क,संचरन्तो विदधति मलिनं कर्म कामप्रयुक्ताः। जानन्तोऽप्यर्थहीनं जगदिदमखिलं भ्रान्तवद् द्वैतजालं __रागद्वेषादिमन्तो वयमयमिति हा न त्यजन्तेऽभिमानम् ॥६२॥ (१५) प्रज्ञावन्तोऽपि केचिच् चिरमुपनिषदाद्यर्थकारा यतन्तो
व्याकुर्वन्तोऽपि केचिद् दलितपरमता यद्यपि ज्ञाततत्त्वाः । तीर्थे तीर्थे तथापि भ्रमणरसिकतां नो जहत्यध्वखेदा __यत् तत् कष्टं विधत्ते मम मनसि सदा पश्यतम् तत्र कृत्यम् ॥६॥(५) तीर्थावस्थानजन्यं न भवति सुकृतं दुष्कृतोन्मूलनं वा
यस्मादाभ्यां विहीनः श्रुतिसमधिगतः प्रत्यगात्मा जनानाम् । सर्वेषामद्वितीयो निरतिशयसुखं यद्यपि स्वप्रकाशास्
तीर्थे विद्यास तथापि स्पृहयति तपसे यत् तदाश्चर्यहेतुः॥६४॥(४) उदासीनो देवो मदनमथनः सज्जनकुले
कलिक्रीडासक्तः कृतपरिजनः प्राकृतजनः। इयं म्लेच्छाक्रान्ता त्रिदशतटिनी चोभयतटे
कथं भ्रातः स्थाता कथय सुकृतिन् कुत्र विभयः ॥ ६५ (७९) निःसारा वसुधाधुना समजनि प्रौढप्रतापानल
ज्वालाजालसमाकुला द्विपघटासंघट्टविक्षोभिता । म्लेच्छानां रथवाजिपत्तिनिवहैरुन्मूलिता कीदृशी
यं विद्या भवितेति हन्त न सखे जानीमहे मोहिताः॥६६॥(८०) वेदो निर्वेदमागादिह नमनभिया ब्राह्मणानां वियोगाद्
वैयासिक्यो गिरोऽपि क्वचिदपि विरलाः सांप्रतं सन्ति देशे । इत्थं धर्मे विलीने यवनकुलपती शासति क्षोणिबिम्बं
नित्यं गङ्गावगाहाद् भवति गतिरितः संमृतेरर्थसिद्धौ ॥६७॥(८१) गङ्गा गङ्गेति यस्याः श्रुतमपि पठितं केनचिन नाममात्रं
दूरस्थस्यापि पुंसो दलयति दुरितं प्रौढमित्याहुरेके । सा गङ्गा कस्य सेव्या न भवति भुवने सज्जनस्यातिभव्या
ब्रह्माण्डं प्लावयन्ती त्रिपुरहरजटामण्डलं मण्डयन्ती ॥ ६८॥(८२) यत्तीरे वसतां सतामपि जलैमूलैः फलैर्जीवतां मुक्ताहंममभावशुद्धमनसामाचारविद्यावताम् ।
63 ) B नो जहात्यध्वखेदाद. 65 ") N सुकृती (for सुकृतिन्).
64 ") B गतप्रत्यगात्मा. - °) B 'शयसुखो. G8 ") N (wrongly ) मगडयन्तीम्.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org