Book Title: Shataka Trayadi Subhashit Sangraha
Author(s): Bhartuhari, Dharmanand Kosambi
Publisher: Bharatiya Vidya Bhavan
View full book text
________________
वित्तम् ।
यदि वा रक्तया दत्तं तथापि त्वं न शोभसे ।
अहं गोपायिता तस्य कस्योक्तं वा मया पुनः ॥ ७८ ॥ कोशात् तदप्यधिष्ठानं कर्तव्यं शुद्धचेतसा । शपथी हीनदोपाय कामिनी पूच्यते बुधैः ॥ ७९ ॥ कुट्टिनीनां पुरो देयो व्यवहारस तु कामिना । वेश्यां यो नातिसंधत्ते मूढोऽसाविति साध्यते ॥ ८० ॥ तदेवार्थयते येन पूर्वोक्तं नोत्तरं स्पृहा । यथार्थं व्यवहारज्ञा वेश्या भूयो न वयते ॥ ८१ ॥ नासावा मरणादित्थं पैरित्यजति तं विटम् । उभयोस्त्यागजं दुःखं कः कुर्यादर्थमित्रयोः ॥ ८२ ॥ हितमिममुपदेशं कुर्वता लोकदृष्टिं मितमपरिमितार्थं यन्मयोपात्तमत्र । जनितयुवतिरागाः सन्तु पुण्येन तेन प्रतिहतरतिविघ्नाः प्राणिनः सौख्यभाजः ८३ जानकीवदनोल्लासहेतुं सेतुं बबन्ध यः । तत्पाद सेविनालेखि विटवृत्तं द्विजन्मनाम् ॥ ८४ ॥
॥ इति विश्वृत्तम् ॥
Jain Education International
For Private & Personal Use Only
૩૫
www.jainelibrary.org
Page Navigation
1 ... 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346