Book Title: Shataka Trayadi Subhashit Sangraha
Author(s): Bhartuhari, Dharmanand Kosambi
Publisher: Bharatiya Vidya Bhavan

View full book text
Previous | Next

Page 317
________________ २१२ भर्तृहरिसुभाषितसंग्रहै. 2 The Vijñāna ataka. [In reporting variants, N refers to the Nagpur odition of 1897, B to the current Bombay edition; B sloka numbers aro givou in brackots or footnotes wherever they riffer from N numbers. ] विगलदमलदानश्रेणिसौरम्यलोभोपगतमधुपमालाव्याकुलाकाशदेशः। अवतु जगदशेपं शश्वदुग्रात्मजो यो विपुलपरिघदन्तोदण्डशुण्डो गणेशः॥१॥ यत्सत्तया शुचि विभाति यदात्मभासा प्रद्योतितं जगदशेषमपास्तदोषम् । तद् ब्रह्म निष्कलमसङ्गमपारसौख्यं प्रत्यग् भजे परममङ्गलमद्वितीयम् ॥ २.॥ माता मृता जनयितापि जगाम शीघ्रं लोकान्तरं तव कलत्रसुतादयोऽपि । भ्रातस् तथापि न जहासि मृषाभिमानं दुःखात्मके वपुषि मूत्रकुदर्पकूपे ॥३॥ ब्रह्मामृतं भज सदा सहजप्रकाशं सर्वान्तरं निरवधि प्रथितप्रभावम् । यद्यस्ति ते जिगमिषा सहसा भवाब्धेः पारे परे परमशर्मणि निष्कलङ्के॥४॥ आरभ्य गर्भवसतिं मरणावसानं यद्यस्ति जीवितुमदृष्टमनेककालम् । जन्तोस तथापि न सुखं सुखविभ्रमोऽयं यद् बालया रतिरनेकविभूतिभाजः॥५ सा रोगिणी यदि भवेदथ वा विवर्णा बाला प्रिया शशिमुखी रसिकस्य पुंसः । शल्यायते हृदि तथा मरणं कृशाङ्यायत्तस्य सा विगतनिद्रसरोरुहाक्षी ॥६॥ त्वत्साक्षिकं सकलमेतदवोचमित्थं भ्रातर्विचार्य भवता करणीयमिष्टम् । येनेदृशं न भविता भवतोऽपि कष्टं शोकाकुलस्य भवसागरमग्नमूर्तः ॥७॥ निष्कण्टकेऽपि न सुखं वसुधाधिपत्ये कस्यापि राजतिलकस्य यदेष देवः। विश्वेश्वरो भुजगराजविभूतिभूपो हित्वा तपस्यति चिरं सकला विभूतीः ॥ ८॥ भूमण्डल लयमुपैति भवत्यबाधं लब्धात्मक पुनरपि प्रलयं प्रयाति । आवर्तते सकलमेतदनन्तवारं ब्रह्मादिभिः सममहो न सुखं जनानाम् ॥९॥ यदा देवादीनामपि भवति जन्मादि नियतं महाहर्म्यस्थाने ललितललनालोलमनसाम् । तदा कामार्तानां सुगतिरिह संसारजलधौ निमग्रानामुच्चै रतिविषयशोकादिमकरे ॥ १० ॥ (४७) स्वयं भोक्ता दाता वसु सुबहु संपाद्य भविता कुटुम्बानां पोष्टा गुण निधिरशेषेप्सितनरः। इति प्रत्याशस्य प्रबलदुरितानीतविधुरं शिरस्यस्याकस्मात् पतति निधनं येन भवति ॥ ११ ॥ (७२) 1 ) N°त्मदर्यो?; B°मदपौ. -")B परिधिदन्तो'. 2 ") B सदिदमस्ति ( for शुचि विभाति). 6 ) B कृशाङ्गी (for कृशाङ्गया.). 7 ) Dभअति (for भविता). 8 ) B विभूतिः. 10 ") B महारम्ये स्थाने. Bnumbers: 3 = 61,429,5 09,6-69.7%3D61,S-70,9374. Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346