Book Title: Shataka Trayadi Subhashit Sangraha
Author(s): Bhartuhari, Dharmanand Kosambi
Publisher: Bharatiya Vidya Bhavan
View full book text
________________
२०८
भर्तृहरिसुभाषितसंग्रहे आगतोऽहं * * * * * * * * न चेक्षितः। गाढालिङ्गननिर्वाणं कदाहं प्रापितस त्वया ॥ ३०॥ कामिनश चरितैरेभिः कुर्वन्तो निशि जागरम् । कुर्वन्त्यप्रियमात्मानं केचिन् मूढाः प्रिया अपि ॥ ३१ ॥ नीत्वात्मानं प्रकाशत्वमन्यया योषिता सह ।। कारयेत कलहं कामी प्रीतिमिच्छन् सदात्मनः ॥ ३२ ॥ यत्र यत्र करोतीयां कलहो वा यया सह । यया कामुकवैरं च निवारयति यां प्रति ॥ ३३ ॥ उक्तस ते रुधिरेणाहं स्पृष्टं ते मस्तकं मया। इत्येता शपथान् कृत्वा सा वै गम्या पुनः पुनः॥३४॥ प्रतिकूलतमं यद्यदेकस्मिञ्शयने स्त्रियः । वामत्वात् पुष्पधनुषस् तत् तत् प्रेमनिवन्धनम् ॥ ३५ ॥ ग्राह्यं नाम विपक्षस्य मृपासुप्तेन कामिना । प्रतिभेदे कृतं शीघ्रं कर्तव्यो निह्नवः सदा ॥ ३६॥ रात्रौ सुरतसंभोगलालसा शयने [ र ]ता । विपक्षप्रेष्ययत्नानां मुक्तवाचानभिज्ञता ॥ ३७॥ तिष्ठ तावदयं कोऽपि बहिः किमपि जल्पति । इत्युक्त्वा निर्गतः शीघ्रमपि देवकुलं व्रजेत् ॥ ३८ ॥ त्यक्त्वा स मां कथं नाम गत्वा सुप्तम तया सह । इति चिन्ताकृतोऽमर्षः प्रादुर्भवति चेतसि ॥ ३९ ॥ आमोन् मदनः सद्यो दीप्तश चेतसि जायते । स वृद्धिं नीयते कामं तस्मिन् द्वेष्येऽपि योषिताम् ॥ ४०॥ चिन्तितं यदनेनासीद् देयं बह्वल्पमेव वा । देयं तेनाधुना तस्यै कालेनेति न संशयः ॥४१॥ हस्ते कृता सुरूपा च फलेनापि सुयोजिता । वीटिकेवाङ्गना रागं न हि बध्नाति खण्डिता ॥ ४२ ॥ कुट्टिन्या सह कर्तव्यः कलहो निपुण तथा । समुपैति यथा द्वेषं तत्पुरं प्रोच्यतेऽपि यः ॥४३॥ किमसाकमनेनेति कुट्टिन्या यत्र वार्यते । कामुके कामिनी तस्मिन् नितरामनुरज्यते ॥४४॥ गुरुबन्धुसुहृद्वर्गप्रतिषेधेन्धनेरितम् । मदनाग्निर्बलत्युच्चैर्योषितः पुरुषस्य वा ॥४५॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346