Book Title: Shantinath Charitram
Author(s): Ajitbprabhacharya
Publisher: Unknown

View full book text
Previous | Next

Page 4
________________ श्रीशान्तिनाथचरित्रे योग्योऽयमिति तां तस्मा उपाध्यायो ददौ सुताम् । रममाणस्तया साई तवास्थात्कपिल: सुखम् ॥ २७ ॥ उपाध्यायस्य मान्योऽयमिति लोकरपूज्यत । विद्वत्कथासु सर्वत्र क्रियते स्म निदर्शनम् ॥ २८ ॥ जगज्जीवातुधान्यौघटणवृद्धिविधानतः । परिरक्षितदुष्कालो वर्षाकालोऽन्यदाऽभवत् ॥ २८ ॥ तस्मिंश्च समयेऽन्येद्यः कौतुको कपिलो ययौ । रात्री प्रेक्षणकालोककृते देवकुलादिषु ॥ ३० ॥ महत्यामथ यामिन्यामन्धकार निरन्तरे । वर्षयम्बुधरे गहमागच्छन् 'स व्यचिन्तयत् ॥ ३१ ॥ मार्गो निःसञ्चरस्तावत्तमसाऽन्तरितेक्षणम् । विखं प्रवर्त्तते तत्किं वस्त्रे आर्दीकरोम्यहम् ॥ ३२ ॥ विचिन्त्येदमथो कक्षान्तरे प्रक्षिप्य वाससौ। स सत्त्वरमुपेयाय नग्नीभूतो निजे रहे ॥ ३३ ॥ परिधाय ततो वस्त्रे प्रविवेश गृहान्तर । तद्भार्या तं बभाष ऽथ ढौकयित्वाऽन्यवाससी ॥ ३४ ॥ अग्रेतने जलक्लिन्ने मुञ्च त्वं नाथ चीवरे । इमे च परिधेहीति भणित: कपिलो ऽब्रवीत् ॥ ३५ ॥ पश्य प्रिये नहि लिने मन्त्रशक्त्या ममाम्बरे । करस्पत्तिप्रियाऽपि ते विवेद तथाविधे ॥ ३६ ॥ (१) क सोऽयचिन्तयत् ।

Loading...

Page Navigation
1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 ... 288