Book Title: Shantinath Charitram Author(s): Ajitbprabhacharya Publisher: Unknown View full book textPage 7
________________ प्रथमः प्रस्तावः ।। राज्ञा तु सत्यभामा सा पुनः पृष्टाऽब्रवीदिति। नैतस्माद्यदि मे मोक्षस्तन्मरिष्यामि निश्चितम् ॥ ५७ ॥ राज्ञोचे कपिलो भूयो हंहो धृत्वा बलादमूम् । स्त्रीहत्यां किं करोषि त्वं किं बिभेषि न पाप्मनः ॥ ५८ ॥ अस्मद्राजीसमोपस्था तिष्ठत्वेषा यथामुखम् । दिनानि कत्यपौत्युक्तो मेनेऽसौ कपिलोऽपि तत् ॥ ५८ ॥ सत्यभामा विनीता सा कुर्वाणा शोलरक्षणम् । राजराज्ञीसमीपस्था गमयामास वासरान् ॥ ६ ॥ सूरिविमलबोधाख्यो विहरनवनीतले । तत्रागत्य पुरेऽन्येद्युस्तस्थौ स्थाने यथोचिते ॥ ६१ ॥ सूरेरागमनोदन्तमाकर्थ जनतामुखात्। . .. : ययौ तहन्दनाहेतोः श्रीषणपृथिवीपतिः ॥ ६२ ॥ सूरिं नत्वा यथास्थानमुपाविक्षन्महीपतिः । तमुद्दिश्य मुनीन्द्रोऽथ विदधे धर्मदेशनाम् ॥ ६३ ॥ मनुष्यकादिसामग्रौं सम्प्राप्यापि प्रमादिनः । ये धर्म नानुतिष्ठन्ति तेषां जन्म निरर्थकम् ॥ ६४ ॥ जैन धर्म समाराध्य भूत्वा विभवभाजनम् । प्राप्ता: सिद्धिमुखं ये ते श्लाघ्या मङ्गलकुम्भवत् ॥ ६५ ॥ तद्यथा उज्जयिन्यां महापुऱ्या वैरिसिंहो महीपतिः । सोमचन्द्रा च तद्वार्या धनदत्तश्च श्रेष्ठयभूत् ॥ ६६ ॥ (१) क घ ङ अथ तत् ।Page Navigation
1 ... 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 ... 288