Book Title: Shantinath Charitram Author(s): Ajitbprabhacharya Publisher: Unknown View full book textPage 9
________________ प्रथम: प्रस्तावः । तत्र नैषेधिकोमुख्यान् यथास्थानं दशत्रिकान् । ख्यापयन् परया भक्त्या विदधे चैत्यवन्दनाम् ॥ ७७ ॥ ततः साधून्नमस्कृत्य प्रत्याख्यानं विधाय च । अतिथीनां संविभागं चकार च महामतिः ८ अन्यदप्यखिलं धर्मकर्म शर्मनिबन्धनम् । आह्निकं रात्रिकं चैव धनदत्तो व्यधादुधीः ॥ ७ ॥ अथ धर्मप्रभावेन तुष्टा शासनदेवता | ददौ तस्मै पुत्रवरं प्रत्यक्षीभूय साऽन्यदा ॥ ८० ॥ पुत्रे गर्भागते रात्रिशेषे श्रेष्ठिन्युदैचत । स्वप्ने हेममयं पूर्णकलशं मङ्गलावृतम् ॥ ८१ ॥ जातश्च समये पुत्रस्ततः कृत्वोसवं गुरुम् । तस्मै मङ्गलकलश इत्याख्यां तत्पिता ददौ ॥ ८२ ॥ कलाभ्यासपरः सोऽथाष्टवर्ष प्रमितोऽन्यदा । तात त्वं कुत्र यासीति पप्रच्छ पितरं निजम् ॥ ८३ ॥ सोऽवदद्दत्स गत्वाहमारामे प्रतिवासरम् । ततः पुष्पाणि चानीय करोमि जिनपूजनम् ॥ ८४ ॥ ययौ पित्रा सहान्येद्युस्तत्र सोऽपि कुतूहली | आरामिकोऽवदत्कोऽयं बालो नेत्रविशालकः ॥ ८५ ॥ ज्ञात्वा च श्रेष्ठिपुत्रं तं तस्मै सोऽपि ददौ मुदा । नारङ्गकरुणादीनि सुखादूनि फलान्यलम्' ॥ ८६ ॥ (१) क फलान्यपि ।Page Navigation
1 ... 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 ... 288