Book Title: Shantinath Charitram Author(s): Ajitbprabhacharya Publisher: Unknown View full book textPage 8
________________ श्रीशान्तिनाथचरित्रे धर्मार्थी सुविनीतात्मा सत्यशीलदयान्वितः । गुरुदेवार्चनप्रीतः स श्रेष्ठी धनदत्तकः ॥ ६७ ॥ सत्यभामेति तद्भार्या शौलालङ्घतिशालिनी । पत्यौ प्रेमपरा किं त्वपत्यभाण्डविवर्जिता ॥ ६८ ॥ साऽन्यदा श्रेष्ठिनं पुत्र चिन्ताम्लानमुखाम्बुजम् । दृष्ट्वा पप्रच्छ हे नाथ किं ते दुःखस्य कारणम् ॥ ६८ ॥ श्रेष्ठिना च समाख्याते तस्यै तस्मिन् यथातथे । श्रेष्ठिनो पुनरप्यूचे पर्याप्तं चिन्तयाऽनया ॥ ७० ॥ धर्म एव भवेन्नृणामिहामुत्र सुखप्रदः । स एव सेवनीयो हि विशेषेण सुखैषिणा ॥ ७१ ॥ तत्त्वं देवे गुरौ चापिं कुरु भक्तिं यथोचिताम् । देहि दानं सुपात्रेभ्य: 'पुस्तकं चापि लेखय ॥ ७२ ॥ एवं च कुर्व्वतोः पुत्त्रो भावो यदि तदा वरम् । भविता निर्मलो नाथ परलोकोऽन्यथाऽऽवयोः ॥ ७३ ॥ हृष्टः श्रेष्ठप्रप्युवाचैवं प्रिये साधूदितं त्वया । सम्यगाराधितो धर्मो भवेचिन्तामणिर्नृणाम् ॥ ७४ ॥ ततश्च देवपूजार्थं पुष्यग्रहण हेतवे । आकार्यारामिकं तस्मै ददौ श्रेष्ठी धनं बहु ॥ ७५ ॥ स्वयं गत्वा तदारामे पुष्पाण्यानीय स प्रगे । गृहाचमर्चयित्वा च गच्छति स्म जिनालये ॥ ७६ ॥ (१) गङ पुस्तकांश्चापि ।Page Navigation
1 ... 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 ... 288