Book Title: Samvegrati
Author(s): Prashamrativijay, Kamleshkumar Jain
Publisher: Kashi Hindu Vishwavidyalaya
View full book text
________________
१०८
ननु संगीतमास्वाद्य दृष्ट्वा पुष्पादिसुन्दरम् । आस्वाद्य मधुरान्नं च स्वतंत्रोऽनुभवः सुखम् ॥१३॥
तथा कंटकवेधेन क्षुधाजागरणेन च । रोगादिसंकटे दुःखं स्वातंत्र्यादनुभूयते ॥१४॥
यद् यथाऽस्ति तथा तस्य वेदने विकृतिः कुतः । तथात्वे सति सर्वज्ञो विकृत्या दूषितो भवेत् ॥१५॥
अत्रोच्यते चेतनाया निमित्तैरनुवर्तिता । कर्मविक्षोभिताऽवस्था सुखे दुःखे च दृश्यते ॥ १६ ॥
काचे रंगांचिते नेत्रै - र्लोकिते पारदर्शिनि । अतथास्थमपि रूपं तथात्वेन विलोक्यते ॥ १७ ॥
नेत्रयोरत्र को दोषो दोषोऽस्ति रंगसंगतेः । जीवस्यास्तीह को दोषो दोषो मोहस्य केवलम् ॥१८॥
श्रीसंवेगरतिः

Page Navigation
1 ... 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155