Book Title: Samvegrati
Author(s): Prashamrativijay, Kamleshkumar Jain
Publisher: Kashi Hindu Vishwavidyalaya

View full book text
Previous | Next

Page 134
________________ तन्मनोवर्गणाग्राह-निदानं चिन्तनादिकम् । अपेक्षाऽपूर्तितो दुःखं भवेत् सौख्यं च पूर्तितः ॥३७॥ तनुना मनसा बोधो योऽपि जीवस्य जायते । स कर्मसहचारित्वाद् दुःखमेव निरन्तरम् ॥३८॥ केवली भगवान्नास्ति देहचित्तजबोधवान् । अशारीरमचित्तं च ज्ञानमेतस्य भासते ॥३९॥ सा शान्तिः सैव सन्तोषः सा तृप्तिः सैव सद्गुणः । शरीरान्मनसोऽजातं सुखं यत्राऽस्त्यनन्तकम् ॥४०॥ यावन्नैतत् समुत्पन्नं तावत् सोढव्यमात्मना । दुःखं निर्दलितानन्दं कन्दं द्वेषस्य दुर्भगम् ॥४१॥ ततश्चायातदुःखेषु कर्तव्यं तत्त्वचिन्तनम् । प्रतिकारैरनाश्यानां चिन्तनैरस्तु वारणम् ॥४२॥ ११६ श्रीसंवेगरतिः

Loading...

Page Navigation
1 ... 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155