Book Title: Samvegrati
Author(s): Prashamrativijay, Kamleshkumar Jain
Publisher: Kashi Hindu Vishwavidyalaya

View full book text
Previous | Next

Page 136
________________ ११८ चिन्तयेत् पूर्वपापित्वं कर्मनाशं समन्ततः । अननुभूतदुःखानि नैयत्यं च भवस्थितेः ॥४३॥ स्वभावं वपुषः पूर्व- महर्षीणां च साधनाम् । वैयर्थ्यं स्पष्टमिच्छायाः सुखानां चावधिस्थलम् ॥४४॥ युग्मम् दुःखरूपैस्समायातं पापमेतन्मदीयकम् । अनेकभवसंक्रान्तं जन्मान्तरप्रवर्तकम् ॥४५ ॥ निरानन्दो निरुत्साहो विवशोऽहं सहे यदि । तदा नवीनकर्णौघैर्बद्धस्स्यामहमातुरः ॥४६॥ दुष्टान्यनेककर्माणि कृतान्यत्यन्तरागतः । अद्य तान्यभ्युपेतानि ममैवेयं क्षतिः खलु ॥४७॥ नाकरिष्यमहं तादृग् दुष्कर्म पूर्वजन्मनि । नाभविष्यमहं दुःख-भाजनं जन्मनीह तत् ॥४८॥ श्रीसंवेगरतिः

Loading...

Page Navigation
1 ... 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155