Book Title: Samvegrati
Author(s): Prashamrativijay, Kamleshkumar Jain
Publisher: Kashi Hindu Vishwavidyalaya

View full book text
Previous | Next

Page 148
________________ भ्रात्रोरित्यावयोर्नाम्ना ग्रन्थावालोक्य चिन्तितम् । पितुर्नाम्ना यदि ग्रन्थो लभ्यते तत् सुखं भवेत् ॥७॥ अद्य संपादितः स्वप्नो यथाशक्ति यथामति । पितृदत्तोऽखिलो बोधोऽलिख्यताऽस्यैव नामतः ॥८॥ प्राचीनावुभयौ ग्रन्थौ परमज्ञानभास्वरौ । ताभ्यां किं मेऽस्तु सादृश्यं विनम्रस्याऽनुकारिणः ॥९॥ सौभाग्यशालिनी माता जयादेवी प्रसीदतु । तस्याः स्वाध्यायसाहाय्यं ग्रन्थेनानेन सिद्ध्यतु ॥१०॥ १३० श्रीसंवेगरतिः

Loading...

Page Navigation
1 ... 146 147 148 149 150 151 152 153 154 155