________________
भ्रात्रोरित्यावयोर्नाम्ना ग्रन्थावालोक्य चिन्तितम् । पितुर्नाम्ना यदि ग्रन्थो लभ्यते तत् सुखं भवेत् ॥७॥
अद्य संपादितः स्वप्नो यथाशक्ति यथामति । पितृदत्तोऽखिलो बोधोऽलिख्यताऽस्यैव नामतः ॥८॥
प्राचीनावुभयौ ग्रन्थौ परमज्ञानभास्वरौ । ताभ्यां किं मेऽस्तु सादृश्यं विनम्रस्याऽनुकारिणः ॥९॥
सौभाग्यशालिनी माता जयादेवी प्रसीदतु । तस्याः स्वाध्यायसाहाय्यं ग्रन्थेनानेन सिद्ध्यतु ॥१०॥
१३०
श्रीसंवेगरतिः