Book Title: Samvegrati
Author(s): Prashamrativijay, Kamleshkumar Jain
Publisher: Kashi Hindu Vishwavidyalaya

View full book text
Previous | Next

Page 144
________________ यथाऽऽयुषोऽस्ति मर्यादा मम काचन निश्चिता । तथा सौख्यस्य लाभेऽपि मर्यादा काचनाऽस्ति माम् ॥६७॥ तामतिक्रम्य नावाप्स्ये नव्यं सौख्यं कथंचन । ततोऽप्राप्तस्य चिन्ताभिरलं व्यर्थाभिरात्मना ॥१८॥ एवं निरामयं चित्तं दुःखकाले समाहितम् । तन्वन् दुःखानुभूत्या न मानसं क्षोभयेन्निजम् ॥१९॥ दुःखैरस्पृश्यमानानां द्वेषो नाविर्भवेद् यतः । बीजैरस्पृश्यमानानाम्-अंकुरस्योद्गमः कुतः ॥७०॥ दुःखद्वैषैरनाक्रान्तस्सम्यचिन्तनतत्परः । नीरागो बाह्यसौख्येषु योगानां साधको भवेत् ॥७१॥ आत्मना ह्यात्मनिर्मग्नः त्यक्त्वा देहादिभावनाम् । कर्मणां जित्वरो योगी शाश्वतानन्दमाप्नुते ॥७२॥ १२६ श्रीसंवेगरतिः

Loading...

Page Navigation
1 ... 142 143 144 145 146 147 148 149 150 151 152 153 154 155