________________
यथाऽऽयुषोऽस्ति मर्यादा मम काचन निश्चिता । तथा सौख्यस्य लाभेऽपि मर्यादा काचनाऽस्ति माम् ॥६७॥
तामतिक्रम्य नावाप्स्ये नव्यं सौख्यं कथंचन । ततोऽप्राप्तस्य चिन्ताभिरलं व्यर्थाभिरात्मना ॥१८॥
एवं निरामयं चित्तं दुःखकाले समाहितम् । तन्वन् दुःखानुभूत्या न मानसं क्षोभयेन्निजम् ॥१९॥
दुःखैरस्पृश्यमानानां द्वेषो नाविर्भवेद् यतः । बीजैरस्पृश्यमानानाम्-अंकुरस्योद्गमः कुतः ॥७०॥
दुःखद्वैषैरनाक्रान्तस्सम्यचिन्तनतत्परः । नीरागो बाह्यसौख्येषु योगानां साधको भवेत् ॥७१॥
आत्मना ह्यात्मनिर्मग्नः त्यक्त्वा देहादिभावनाम् । कर्मणां जित्वरो योगी शाश्वतानन्दमाप्नुते ॥७२॥
१२६
श्रीसंवेगरतिः