Book Title: Samvegrati
Author(s): Prashamrativijay, Kamleshkumar Jain
Publisher: Kashi Hindu Vishwavidyalaya

View full book text
Previous | Next

Page 142
________________ दिव्यवस्त्रादिभोगाढ्यः शालिभद्रः सुकोमलः । अग्निशय्यासमां शिलां संश्रितोऽसाधयच्छुभम् ॥६१॥ सीता गर्भवती त्यक्ता रामेणोइंडकानने । भीताऽपि नागता दैन्यं कर्मलीलाविचारिका ॥२॥ अन्येऽपि दुःखभारेण निस्त्रुटितप्रसन्नताः । साधकाः समभूवन् ते स्मृत्याऽपि साम्यदायकाः ॥६३॥ इच्छा पुण्यादतिक्रान्ता पूर्यते न कदाचन । इच्छाऽनावश्यके दृब्धा दुःखमेवाभिवर्धयेत् ॥६४॥ मया लब्धं तदन्यैर्न सुखं प्राप्तं सहस्रकैः । तदवाप्तेन सौख्येन प्रमोदः शोभनः खलु ॥६५॥ अनवाप्तस्य चिन्तायां योऽवाप्तमपि विस्मरेत् । सारमेय इव भ्रष्ट स नूनमुभयस्थलाद् ॥६६॥ १२४ श्रीसंवेगरतिः

Loading...

Page Navigation
1 ... 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155