________________
दिव्यवस्त्रादिभोगाढ्यः शालिभद्रः सुकोमलः । अग्निशय्यासमां शिलां संश्रितोऽसाधयच्छुभम् ॥६१॥
सीता गर्भवती त्यक्ता रामेणोइंडकानने । भीताऽपि नागता दैन्यं कर्मलीलाविचारिका ॥२॥
अन्येऽपि दुःखभारेण निस्त्रुटितप्रसन्नताः । साधकाः समभूवन् ते स्मृत्याऽपि साम्यदायकाः ॥६३॥
इच्छा पुण्यादतिक्रान्ता पूर्यते न कदाचन । इच्छाऽनावश्यके दृब्धा दुःखमेवाभिवर्धयेत् ॥६४॥
मया लब्धं तदन्यैर्न सुखं प्राप्तं सहस्रकैः । तदवाप्तेन सौख्येन प्रमोदः शोभनः खलु ॥६५॥
अनवाप्तस्य चिन्तायां योऽवाप्तमपि विस्मरेत् । सारमेय इव भ्रष्ट स नूनमुभयस्थलाद् ॥६६॥
१२४
श्रीसंवेगरतिः