________________
११८
चिन्तयेत् पूर्वपापित्वं कर्मनाशं समन्ततः । अननुभूतदुःखानि नैयत्यं च भवस्थितेः ॥४३॥
स्वभावं वपुषः पूर्व- महर्षीणां च साधनाम् । वैयर्थ्यं स्पष्टमिच्छायाः सुखानां चावधिस्थलम् ॥४४॥ युग्मम्
दुःखरूपैस्समायातं पापमेतन्मदीयकम् । अनेकभवसंक्रान्तं जन्मान्तरप्रवर्तकम् ॥४५ ॥
निरानन्दो निरुत्साहो विवशोऽहं सहे यदि । तदा नवीनकर्णौघैर्बद्धस्स्यामहमातुरः ॥४६॥
दुष्टान्यनेककर्माणि कृतान्यत्यन्तरागतः । अद्य तान्यभ्युपेतानि ममैवेयं क्षतिः खलु ॥४७॥
नाकरिष्यमहं तादृग् दुष्कर्म पूर्वजन्मनि । नाभविष्यमहं दुःख-भाजनं जन्मनीह तत् ॥४८॥
श्रीसंवेगरतिः