________________
तन्मनोवर्गणाग्राह-निदानं चिन्तनादिकम् । अपेक्षाऽपूर्तितो दुःखं भवेत् सौख्यं च पूर्तितः ॥३७॥
तनुना मनसा बोधो योऽपि जीवस्य जायते । स कर्मसहचारित्वाद् दुःखमेव निरन्तरम् ॥३८॥
केवली भगवान्नास्ति देहचित्तजबोधवान् । अशारीरमचित्तं च ज्ञानमेतस्य भासते ॥३९॥
सा शान्तिः सैव सन्तोषः सा तृप्तिः सैव सद्गुणः । शरीरान्मनसोऽजातं सुखं यत्राऽस्त्यनन्तकम् ॥४०॥
यावन्नैतत् समुत्पन्नं तावत् सोढव्यमात्मना । दुःखं निर्दलितानन्दं कन्दं द्वेषस्य दुर्भगम् ॥४१॥
ततश्चायातदुःखेषु कर्तव्यं तत्त्वचिन्तनम् । प्रतिकारैरनाश्यानां चिन्तनैरस्तु वारणम् ॥४२॥
११६
श्रीसंवेगरतिः