Book Title: Sambodhi 2000 Vol 23
Author(s): Jitendra B Shah, N M Kansara
Publisher: L D Indology Ahmedabad

Previous | Next

Page 125
________________ ॥ जैनप्रमाणमीमांसायामुपमानप्रमाणस्य विभावना ॥ Dr. K. V. Mehta* जैनागमग्रन्थेषु स्वतन्त्रतया प्रमाणविचारणा नैव समुपलभ्यते । प्रज्ञापनानन्दीसूत्रादिग्रन्थेषु ज्ञानपञ्चकस्य जैनदर्शनसम्मतः स्वतन्त्र विचारः प्रवर्तते । मतिश्रुतिभ्यां ज्ञानद्वयी, अवधिमनःपर्यायकेवलैः ज्ञानत्रयी इत्यनया रीत्या सङ्कलनेन ज्ञानपञ्चकस्य स्वोपज्ञोऽवदातश्च सिद्धान्तो जैनदर्शने, “उमास्वातेस्तत्त्वार्थाधिगमसूत्रे जरीजागर्तीति विदितचरम् । ॥ द्र. तत्त्वार्था. १.९ ॥ तत्र प्रथमा ज्ञानद्वयी न केवलमात्मानं किन्तु इन्द्रियाण्यपेक्षतेऽतएव सा परोक्षज्ञानत्वेनाऽभिधीयते । द्वितीया ज्ञानत्रयीत्वात्मतत्त्वमात्रसापेक्षेति कृत्वा प्रत्यक्षत्वेनाऽभिधीयते । उपर्युक्ता जैनज्ञानाधिगमस्य द्विधा व्यवस्थाऽपि स्वोपज्ञत्वेनोमास्वातिमनीषायां विद्योतते ॥ भगवता पूज्यपादेनोमास्वातिसूरिवरेण्येनैव कदाचिदिदं प्रथमतयोद्धोषितं यज्जैनसम्मतानि यानि पञ्चज्ञानानि विभान्ति तान्येव प्रमाणत्वेनाऽपि स्वीकर्तव्यानीति । इत्थं वैदिकादीतरदर्शने समुपलभ्यमानं प्रमाणनिरूपणं प्रति जैनदर्शने समुपलभ्यमानं ज्ञानपञ्चकनिरूपणं स्वसाङ्गत्यं सम्यक् साधयतीति । एवं पञ्चसम्यक्ज्ञानस्यैव प्रामाण्यत्वात् तेषामेव प्रमाणत्वेन स्वीकरणस्यायं ज्ञानसिद्धान्तः स्वेतरदर्शनवैलक्षण्येन चैनप्रमाणमीमांसायां परिनिष्ठां गतः । इत्थं "प्रभा करणं प्रमाणं" प्रमीयते (प्रमेयः) अननेति प्रमाणमितिसामान्यलक्षणलक्षितेन वैदिकदर्शनस्थेन प्रमाणसिद्धान्तेन सह तादात्म्यं गतोऽयं जैनतैर्थिकानां ज्ञानपञ्चकात्मकः सिद्धान्तो भगवतोमास्वातिसूरिणा प्रत्यक्षपरोक्षप्रमाणाभ्यां द्विधा विभज्यते । इत्थं प्रत्यक्षपरोक्षज्ञानाभ्यां द्विधा विभागतां गतस्यास्य जैनदर्शनस्य ज्ञानसिद्धान्तस्य परमं रहस्यं संज्ञापयति कारिकेयं न्यायावतारग्रंन्थेऽवस्थिता । यथा “न प्रत्यक्षमपि भ्रान्तं प्रमाणत्वविनिश्चयात् । भ्रान्तं प्रमाणमित्येतद् विरुद्धवचनं यतः ॥६॥ अनेन श्लोकेन जैनप्रमाणनय निरूपणस्योपनिषद्भूतं तत्त्वं समुद्घाट्यते यत् ज्ञानस्यैव प्रमाणत्वादज्ञानस्याऽर्थात् विपर्ययज्ञानस्य भ्रान्तज्ञानस्य वा प्रमाणत्वमपि नास्ति तस्य ज्ञानदन्यत्वरूपभावपदार्थत्वात् । भगवतोभास्वातिना प्रमाणद्वैविध्यस्य कृतः सङ्केतोऽपि प्रमाणविद्यायां जैनतैर्थिकैः सर्वथा स्वीकृत * Reader in Sanskrit, Uni. School of Languages, Gujarat University, Ahmedabad-9

Loading...

Page Navigation
1 ... 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157