________________
॥ जैनप्रमाणमीमांसायामुपमानप्रमाणस्य विभावना ॥
Dr. K. V. Mehta*
जैनागमग्रन्थेषु स्वतन्त्रतया प्रमाणविचारणा नैव समुपलभ्यते । प्रज्ञापनानन्दीसूत्रादिग्रन्थेषु ज्ञानपञ्चकस्य जैनदर्शनसम्मतः स्वतन्त्र विचारः प्रवर्तते । मतिश्रुतिभ्यां ज्ञानद्वयी, अवधिमनःपर्यायकेवलैः ज्ञानत्रयी इत्यनया रीत्या सङ्कलनेन ज्ञानपञ्चकस्य स्वोपज्ञोऽवदातश्च सिद्धान्तो जैनदर्शने, “उमास्वातेस्तत्त्वार्थाधिगमसूत्रे जरीजागर्तीति विदितचरम् । ॥ द्र. तत्त्वार्था. १.९ ॥
तत्र प्रथमा ज्ञानद्वयी न केवलमात्मानं किन्तु इन्द्रियाण्यपेक्षतेऽतएव सा परोक्षज्ञानत्वेनाऽभिधीयते । द्वितीया ज्ञानत्रयीत्वात्मतत्त्वमात्रसापेक्षेति कृत्वा प्रत्यक्षत्वेनाऽभिधीयते । उपर्युक्ता जैनज्ञानाधिगमस्य द्विधा व्यवस्थाऽपि स्वोपज्ञत्वेनोमास्वातिमनीषायां विद्योतते ॥
भगवता पूज्यपादेनोमास्वातिसूरिवरेण्येनैव कदाचिदिदं प्रथमतयोद्धोषितं यज्जैनसम्मतानि यानि पञ्चज्ञानानि विभान्ति तान्येव प्रमाणत्वेनाऽपि स्वीकर्तव्यानीति । इत्थं वैदिकादीतरदर्शने समुपलभ्यमानं प्रमाणनिरूपणं प्रति जैनदर्शने समुपलभ्यमानं ज्ञानपञ्चकनिरूपणं स्वसाङ्गत्यं सम्यक् साधयतीति । एवं पञ्चसम्यक्ज्ञानस्यैव प्रामाण्यत्वात् तेषामेव प्रमाणत्वेन स्वीकरणस्यायं ज्ञानसिद्धान्तः स्वेतरदर्शनवैलक्षण्येन
चैनप्रमाणमीमांसायां परिनिष्ठां गतः । इत्थं "प्रभा करणं प्रमाणं" प्रमीयते (प्रमेयः) अननेति प्रमाणमितिसामान्यलक्षणलक्षितेन वैदिकदर्शनस्थेन प्रमाणसिद्धान्तेन सह तादात्म्यं गतोऽयं जैनतैर्थिकानां ज्ञानपञ्चकात्मकः सिद्धान्तो भगवतोमास्वातिसूरिणा प्रत्यक्षपरोक्षप्रमाणाभ्यां द्विधा विभज्यते ।
इत्थं प्रत्यक्षपरोक्षज्ञानाभ्यां द्विधा विभागतां गतस्यास्य जैनदर्शनस्य ज्ञानसिद्धान्तस्य परमं रहस्यं संज्ञापयति कारिकेयं न्यायावतारग्रंन्थेऽवस्थिता । यथा
“न प्रत्यक्षमपि भ्रान्तं प्रमाणत्वविनिश्चयात् ।
भ्रान्तं प्रमाणमित्येतद् विरुद्धवचनं यतः ॥६॥ अनेन श्लोकेन जैनप्रमाणनय निरूपणस्योपनिषद्भूतं
तत्त्वं समुद्घाट्यते यत् ज्ञानस्यैव प्रमाणत्वादज्ञानस्याऽर्थात् विपर्ययज्ञानस्य भ्रान्तज्ञानस्य वा प्रमाणत्वमपि नास्ति तस्य ज्ञानदन्यत्वरूपभावपदार्थत्वात् ।
भगवतोभास्वातिना प्रमाणद्वैविध्यस्य कृतः सङ्केतोऽपि प्रमाणविद्यायां जैनतैर्थिकैः सर्वथा स्वीकृत
* Reader in Sanskrit, Uni. School of Languages, Gujarat University, Ahmedabad-9