SearchBrowseAboutContactDonate
Page Preview
Page 126
Loading...
Download File
Download File
Page Text
________________ 119 lol. XXIII, 2000 ॥ जैनप्रमाणमीमांसायामुपमानप्रमाणस्य विभावना ॥ ति । यथा : प्रमाणं स्वपराभासि ज्ञानं बाधविवर्जितम् । प्रत्यक्षं च परोक्षं च द्विधा मेयविनिश्चयात् ॥ (न्यायावतारः, सिद्धसेनदिवाकरप्रणीतः - १) हरिभद्रसूरिणाऽपि षड्दर्शनसमुच्चये प्रत्यक्षपरोक्षाभ्यां प्रमाणस्य द्विधा विभागः कृतः ॥ यथा : "प्रत्यक्षं च परोक्षं च द्वे प्रमाणे तथा मते अनन्तधर्मकं वस्तु प्रमाणविषयस्त्विह ॥ (ष.द.स. : ४.५५) ३) माधवाचार्येण सर्वदर्शनसमहेऽप्युक्तं यत् - स्याद्वादस्य प्रमाणे द्वे प्रत्यक्षमुपमापि च । (माधवः सर्वदर्शनसंग्रहः, पृ. १५३) एवं जैनदर्शने प्रमाणद्वयस्य सिद्धान्तसार्वभौमतां गतः । उपर्युक्तो द्विसंख्यात्मको जैनप्रमाणसिद्धान्तस्तु जेनभद्रसूरिणा कृतं संशोधनं सम्प्राप्यऽन्ततोगत्त्वाऽधोलिखितप्रकारेण सम्पूर्णतां गतः । समाविष्टयोः परोक्षज्ञाने द्वयोर्मतिश्रुतज्ञानयोर्मध्ये वर्तमानस्यैकस्य मतिज्ञानस्य सांव्यवहारिक-प्रत्यक्षत्वेनाऽपि व्यवस्था कृता विभाति जैनदर्शने । द्वितीयस्य श्रुतज्ञानस्य शाब्दज्ञानत्वेनार्थात् शब्दप्रमाणत्वेन संकीर्तना कृता परोक्षज्ञानत्वेन, विभात्यर्हद्दर्शने । पारमार्थिके प्रत्यक्षेऽवधिमनःपर्यायकेवलज्ञानादित्रितयं समाविष्टं भवति । पुनश्च परोक्षज्ञानस्य पञ्चधा कृतं विभाजनं जैनतैर्थिकानां मनीषायां संप्रकाशते । तद्यथा, स्मृतिप्रत्यभिज्ञानतर्वानुमानागमज्ञानपञ्चकैः पञ्चप्रकारकं परोक्षज्ञानं सम्भवति । तत्र प्रत्यभिज्ञाऽभिधे परोक्षज्ञानप्रकारके वैदिकदर्शनान्तर्गतस्योपमानप्रमाणस्यान्तर्भावं विदधाति, समामनुते च जैनदार्शनिकी प्रमाणनिरूपणपरम्परेति दिक् । जैनप्रमाणमीमांसापरम्परायामकलकाभिधाचार्यवरेण्येन परोक्षज्ञाने स्मृत्यादिपूर्वोक्तपञ्चज्ञानात्मकपरोक्षप्रमाणस्य सिद्धान्तः प्रतिपादितः । भगवतोमास्वातिसूरिणा मतिज्ञानस्य पर्यायत्वेन यानि पदान्युदीरितानि तानि न केवलानि पर्यायादीनि किन्तु 'प्रत्यर्थं शब्दा भिद्यन्त' इति न्यायेन भिन्नानि पदार्थानीति याथातथ्येनोपपाद्य परोक्षज्ञानं स्मृत्यादिपञ्चभेदैः पञ्चधा व्याकृत्य स्मृत्यादिपञ्चप्रमाणत्वेन समाम्नायते। उपर्युक्तं, सूरिणाऽकलङ्कपादाचार्यप्रोक्तं मतिसंज्ञकज्ञानपञ्चकात्मकं प्रमाणपञ्चकं सर्वथा स्वीकृत्यैव तस्याऽन्यतमभेदभूते प्रत्यभिज्ञासंज्ञके परोक्षज्ञानात्मके परोक्षे प्रमाणे 'उपमान' - प्रमाणस्य समावेशोऽन्तर्भावो
SR No.520773
Book TitleSambodhi 2000 Vol 23
Original Sutra AuthorN/A
AuthorJitendra B Shah, N M Kansara
PublisherL D Indology Ahmedabad
Publication Year2000
Total Pages157
LanguageEnglish, Sanskrit, Prakrit, Gujarati
ClassificationMagazine, India_Sambodhi, & India
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy